AP Inter 2nd Year Sanskrit Question Paper March 2023

AP Inter 2nd Year Sanskrit Question Paper March 2023

Time : 3 Hours
Max. Marks: 100

Note :
(i) ALL questions should be attempted.
(ii) Question Nos. 1, 2 and 3 should be answered either in the medium of instructions of the candidate or in Sanskrit (Devanagari Script).
(iii) The remaining questions should be answered in Sanskrit (Devanagari Script) only.

निर्देश : प्रथम, द्वितीय, तृतीय- प्रश्नान् विहाय अन्ये सवेंऽपि प्रश्नाः संस्कृतभाषायामेव समाधातव्याः ।

1. एकस्य श्लोकस्य प्रतिपदार्थं भावं च लिखत । (1 × 8 = 8)

अ) परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥

आ) उद्यमं साहसं धैर्य बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ।।

2. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

अ) रावणाय विभीषणेन कृतमुपदेशं लिखत ।

आ) मातृभूमेः वैभवं कविः कथं प्रशशंस ?

3. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

अ) मन्दविषसर्पकथां सग्रहेण लिखत ।

आ) वेङ्कटरावस्य स्वभावं संग्रहेन लिखत ।

4. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6)

अ) कर्णभारं केन विरचितम् ?

आ) भृगुवंशकेतुः कः ?

इ) बालानां कलहः कीदृश: ?

ई) केन दृपदः गर्वान्ध जातः ?

उ) कालिदासेन उक्तस्य श्लोकस्य भावः कः ?

ऊ) भेजः कोशाध्यक्षं प्रति किं सूचितवान् ?

AP Inter 2nd Year Sanskrit Question Paper March 2023

5. द्वयोः ससन्दर्भ व्याख्यानं लिखत | (2 × 3 = 6)

अ) वदेत् क्षमं स्वामिहितं मन्त्री |

आ) पिण्डेष्वनास्था खलु भौतिकेषु ।

इ) विद्या यत्र परोपकारविभवाः सा ज्ञानभूमिर्मम |

ई) सा संस्कृताख्या सुकृतैकलश्या ।

6. द्वयोः ससन्दर्भ व्याख्यानं लिखत । (2 × 3 = 6)

अ) सतां सङ्गो हि भेषजम् ।

आ) वः कृतमुपकारं विस्मरति स एव पुरुषाधमः ।

इ) वैद्योऽपि मानव एव ।

ई) राजा तं कनकाभिषेकेण सत्कृतवान् ।

7. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6)

अ) सीता कीदृशी ?

आ) दिलीपेन सेव्यमानं नन्दिनीधेनुं कः चकर्ष ?

इ) पृथिव्यां त्रीणि रत्नानि कानि ?

ई) परोपदेशसमये जनाः सर्वेऽपि कीदृशाः बवन्ति ?

उ) देवगिरीणां पञ्च नामानि लिखत ।

ऊ) लोके चित्रमतिः कः ?

8. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6 )

अ) मन्दविषो नाम सर्पः कुत्र वसति ?

आ) ब्राह्माणं प्रति तत्प्रेयसी किं जगाद ?

इ) मानसारः कथं गदां प्राप्तवान् ?

ई) मार्गशीर्षमासः कीदृशः आसीत् ?

उ) मज्जुहासिनी का ?

ऊ) अप्पय्यदीक्षितः कुत्र जन्म लेभे ?

9. एकेन पदेन समाधानं लिखत । (5 × 1 = 5)

अ) केषां बलानि अमेयानि ?

आ) दिलीपस्य धर्मपत्नी का ?

इ) सर्वत्र का पूज्यते ?

ई) मूर्खस्य कति चिह्नानि भवन्ति ?

उ) सर्वासु सुतासु कस्याः गुणाः भवन्ति ?

10. एकेन पदेन समाधानं लिखत । (5 × 1 = 5)

अ) हितोपदेशः केन विरचितः ?
आ) देवदत्तः राजानं कुत्र अनीयत् ?
इ) राजवाहनः कस्य पुत्रः ?
ई) श्रीधरस्य मातुः नाम किम् ?
उ) अप्पय्यदीक्षितः कस्य पुत्रः ?

11. अधोनिर्दिष्टकथां पठित्वा प्रश्नानां समाधानानि दत्त । (5 ×1 = 5)

कस्मिंश्चित् वनोद्देशे करालकेसरो नाम सिंहः प्रतिवसति स्म । तस्य धूसरको नाम सृगालः सदैवानुयायी परिचारकोऽस्ति । अथ कदाचित् तस्य हस्तिना सह युद्धमानस्य शरीरे गुरुतराः प्रहाराः सज्जाताः यैः पदमेकमपि चलितुं न शक्नोति । तस्य अचलनाच्च धूसरकः क्षुत् क्षामकण्ठो दौर्बल्यं गतः अन्यस्मिन्नहनि तमवोचत् – “स्वामिन् ! बुभुक्षया पीडितोऽहम् । पदात्पदमपि चलितुं न शक्नोमि । तत्कथं ते शुश्रूषां करोमि ” सिंहः आह “भोः ! गच्छ । अन्वेषय किज्जित् सत्त्वम् । येनेमाम् अवस्थां गतोऽपि व्यापादयामि” |

प्रश्ना:
अ) सिंहस्य नाम किम् ?
आ) परिचारकः कः ?
इ) सृगालः येन सह युद्धं कृतवान ?
ई) धूसरकः सिंहं प्रति किमब्रवीत् ?
उ) सिंहः सृगालं प्रति किमाह ?

AP Inter 2nd Year Sanskrit Question Paper March 2023

12. नामनिर्देशपूर्वकं त्रीणि सन्धत्त । (3 × 2 = 6)

अ) मनस् + चलति
आ) तत् + टीका
इ) अच् + अन्तः
ई) जगत् + नाथः
उ) कः + अपि
ऊ) पितुः + इच्छा

13. नामनिर्देशपूर्वकं त्रीणि विघटयत । (3 × 2 = 6)
अ) सज्जनः
आ) पेष्टा
इ) वागीशः
ई) तन्मात्रम्
उ) रामोऽपि
ऊ) कविरायाति

14. द्वयोः शब्दयोः सविभक्ति रूपाणि लिखत । (2 × 6 =12)

अ) वणिक्
आ) सरित्
इ) मनस्
ई) यद् (पुं)

15. समास नामनिर्देशपूर्वकं त्रयाणां विग्रह वाक्यानि लिखत । (3 × 2 =6)

अ) अहिंसा
आ) पुरुषव्याघ्रः
ई) रामलक्षणौ
उ) प्रत्यक्ष्म्
इ) त्रिलोकी
ऊ) महाबलः

16. अधोनिर्दिष्ट पट्टिकामाधारीकृत्य पञ्च साधु रूपाणि लिखत । (5 × 1 = 5)

AP Inter 2nd Year Sanskrit Question Paper March 2023 1

Leave a Comment