AP Inter 2nd Year Sanskrit Study Material Chapter 4 अपर्याप्तः समयः

Andhra Pradesh BIEAP AP Inter 2nd Year Sanskrit Study Material गद्यभागः 4th Lesson अपर्याप्तः समयः Textbook Questions and Answers, Summary.

AP Inter 2nd Year Sanskrit Study Material 4th Lesson अपर्याप्तः समयः

लघु समाधान प्रश्नाः Short Answer Questions

प्रश्न 1.
श्रीधरः स्वमातुः मरणसमये किं कुर्वन्नास्ते?
उत्तर:
श्रीधरः स्वमातुः मरणसमये विश्वविद्यालये शोधग्रन्थसमर्पणकार्यं कुर्वन् आस्ते।

प्रश्न 2.
मार्गशीर्षमासः कीदृशः आसीत्?
उत्तर:
मार्गशीर्षमासः शीतवायुविजृम्भणेन युक्तः आसीत्।

प्रश्न 3.
वैद्यः श्रीधरं प्रति किमुक्तवान्?
उत्तर:
अधिककार्यभारेण हृद्रोगः प्राप्तः, कञ्चित्कालं विश्रान्तिरपेक्षिता। नियतरूपेण औषधसेवनं करणीयम् – इति वैद्यः श्रीधरम् उक्तवान्।

एकपदसमाधान प्रश्नः One Word Answers

प्रश्न 1.
श्रीधरस्य ज्येष्ठभ्रातृवत् कः वर्धते?
उत्तर:
श्रीधरस्य ज्येष्ठभ्रातृवत् तस्य मातुः कासः वर्धते।

AP Inter 2nd Year Sanskrit Study Material Chapter 4 अपर्याप्तः समयः

प्रश्न 2.
अपर्याप्तः समयः इति पाठ्यभागः केन विरचितः?
उत्तर:
अपर्याप्तः समयः इति पाठ्यभागः राणी सदाशिवमूर्तिना विरचितः।

प्रश्न 3.
श्रीधरस्य मातुः नाम किम्?
उत्तर:
श्रीधरस्य मातुः नाम वेदवती।

व्याकरणांशाः Grammar

1. कर्णयोः + इव = कर्णयोरिव – रेफादेशसन्धिः
2. कासहर + औषधम् = कासहरौषधम् – सवर्णदीर्घसन्धिः
3. कण्ठस्वनेन + एव = कण्ठस्वनेनैव – वृद्धिसन्धिः
4. ददामि + इति __= ददामीति – सवर्णदीर्घसन्धिः
5. कथञ्चित् + अहमेव = कथञ्चिदहमेव – जश्त्वसन्धिः
6. क्षीणशक्तिः + आसीत् = क्षीणशक्तिरासीत् – रेफादेशसन्धिः
7. गृहसेवा + अपि = गृहसेवापि – सवर्णदीर्घसन्धिः
8. इति + एव = इत्येव – यणादेशसन्धिः
9. एतानि + अपि = एतान्यपि – यणादेशसन्धिः
10. बहु + अल्पीयसि = बह्वल्पीयसि – यणादेशसन्धिः
11. विषये + अहम् = विषयेऽहम् – पूर्वरूपसन्धिः
12. रात्रौ + एकस्मिन् = रात्रावेकस्मिन् – अयवायावसन्धिः
13. न + अवलोकितः = नावलोकितः – सवर्णदीर्घसन्धिः
14. कापि + अपेक्षा = काप्यपेक्षा – यणादेशसन्धिः

समासः

1. शीतवायवः – शीताश्च ते वायवश्च – वि.पू.कर्मधारयः
2. आत्मसेवा – आत्मनः सेवा – षष्ठीतत्पुरुषसमासः
3. कार्यरतः – कार्ये रतः – सप्तमीतत्पुरुषसमासः
4. गृहप्राङ्गणे – गृहस्य प्राङ्गणे – षष्ठीतत्पुरुषसमासः
5. पाठशालाकार्यम् – पाठशालायाः कार्यम् – षष्ठीतत्पुरुषसमासः
6. कार्यालयकार्यम् – कार्यालयस्य कार्यम् – षष्ठीतत्पुरुषसमासः
7. न पर्याप्तस्समयः – अपर्यात्पस्समयः – नञ् तत्पुरुषसमासः
8. गृहसेवार्थम् – गृहस्य सेवार्थम् – षष्ठीतत्पुरुषसमासः
9. काशीक्षेत्रम् – काशी इति क्षेत्रम् – सं.पूर्व कर्मधारयः
10. वैद्यसकाशम् – वैद्यस्य सकाशम् _ – षष्ठीतत्पुरुषसमासः

राजवाहनजननम् Summary in English

राजवाहनजननम् Introduction:

पाठ्यभागोऽयम् आचार्य.राणि.सदाशिवमूर्तिमहोदयेन रचितः। एतेषां जननं १९५८ वर्षे अभवत्। एते संस्कृत – आन्ध्र – आङ्ग्लभाषासु ज्येतिश्शास्त्रे वेदान्तशास्त्रे च कृतभूरिपरिश्रमाः। एतैः वदतसंस्कृतम्, नवरत्नदीपिका, चाक्षुषयुग्मम्, मनोन्मनीत्यादयो अनेकेग्रन्थाः संरचिता वर्तन्ते। सदाशिवमूर्ति महोदयाः संस्कृतबन्धु – विजयश्री – प्रज्ञाभास्कर – साहित्यअकादमीपुररस्कारः इत्यादिभिः पुरस्कारैः सभाजिताः। एवं रीत्या संस्कृतसाहित्य वैदग्ध्यं सम्पाद्य देशान्तरमपि गत्वा तत्रापि सम्मानिता एते महाशयाः तिरुपतिस्थ – राष्ट्रियसंस्कृतविद्यापीठे शैक्षिकसंकायप्रमुखरूपेण साहित्यविभागाधिपतित्वेन च कार्य कुर्वन्तस्सन्तो विराजन्ते।

Prof. Rani Sadasiva Murthy is a versatile scholar, who authored many Sanskrit and Telugu works. He also received many awards and titles. Some of his works are Vadata Samskritam, Navaratna- बह dipika, Chakshushayugmam, Manonmani etc. Presently he is working in the Rashtriya Samskrita Vidya Peeth, Tirupati.

The present lesson describes the story of a person who never had time for anything, and the consequences he faced for such attitude.

राजवाहनजननम् Translation in English

तदानीं श्रीधरोऽहं दशहायनः। रात्रौ अष्टवादनसमयः। मम पुरतः पाठ्यपुस्तकानि सर्वाणि प्रसार्य पाठशालायां दत्तं गृहकार्यं कुर्वन्नासम्। मातुः वेदवत्याः स्वास्थ्यं समीचीनतया नासीत्। कासस्य प्रभावः अधिकतरो अवर्तत। मासः मार्गशीर्षः। शीतवायवः विजृम्भमाणाः आसन्।

I, Sridhar was ten years old then. It was eight o’clock at night. I spread all my books before me, and was doing homework given by the school. My mother Vedavathi was not keeping good health. She had severe cough. It was the month of Margasirsha. The wind was blowing cold.

AP Inter 2nd Year Sanskrit Study Material Chapter 4 अपर्याप्तः समयः

यथा अहं गृहेऽपि पाठशालाकार्यं कुर्वन्नस्मि तथा मम पिता श्रीनिवासनामापि गृहे कार्यालयकार्यं कुर्वन्नासीत्। मातुः कासध्वनि श्रुत्वा पिता मामाहूय – “मातुः कासहरौषधम् आनय ! धनं ददामि” इति प्रोवाच। अत्रान्तरे कासकपायितकण्ठस्वनेनैव माता -“तं मा प्रेक्यतु भवान् ! सः पठन्नस्ति। बह्वल्पीयसि समये तेन बहु पठनीयमस्ति। कथञ्चिदहमेव गत्वा औषधमानयामि” इत्युक्त्वा स्वमञ्चादुत्थितवती। परन्तु सा स्थातुमपि क्षीणशक्तिरासीत्। अधः पतिता। पिता स्वकीयं कार्यं त्यक्त्वा तां मचे पुनरशाययत्। मम बाल्यम् तादृशम्। अहं पठितुमेव जन्मालभे न तु गृहसेवार्थमित्यभावयम्। गृहसेवाप्यात्मसेवेति भावनैव नासीत्।

While I was doing my homework at house, my father Srinivasa was also engaged in doing office work. On hearing mother’s cough, my father said to me, “Bring medicine for mother’s cough. I will give you money.” Meanwhile my mother intervened with her voice broken by spells of cough, “Don’t send him. He is studying. He has to study much in a very short time. I myself will go somehow. “Having said so, she got up from the bed. But she was unable even to stand. She fell down. Father got up from his work, and made her lie on the bed again. Thus was my childhood. I thought that I was born only to study and not do any household task. I never thought that serving the family was also service to oneself.

अतीतम् तथा मे बाल्यम्। कलाशालायां प्राविशमहम्। मध्ये मध्ये पिता गृहकार्ये मत्साहाय्यमपेक्षमाणः मह्यं किमपि किमपि कथयन्नासीत्। अहं तु सर्वदा मनसाऽपि बधिर एवासम्। माता तु सर्वदा ‘तेन बहु पठनीयमस्ति। समयस्तु स्वल्पो वर्तते’ इत्येव कथयति स्म। मम मनसि एकैव भावना। अहं पठितुमेव जन्मालभे न तु गृहसेवार्थमिति। गच्छत्सु वर्षेषु मातुः कासोऽपि मम ज्येष्ठभ्रातृवद्वर्धते। एतद्विषयेऽहं मनसा अन्ध एवासम्।

Thus my childhood passed. I joined a college. Now and then my father, who needed my help in household chores used to call me for some help. But I was always deaf mentally also. Mother always used to say that he had a lot to study, and time was very short. There was only one thought in my mind. I took birth only for studying, and not for household work. As years passed, mother’s cough also increased like my elder brother. I was blind mentally to this fact.

अहं मम विश्वविद्यालयाध्ययनक्रमे अनुसन्धानविधौ चरमे वर्षे आसम्। शोधग्रन्थसमर्पणाय तिथिरासन्नवर्ती आसीत्। बहूनि मे कार्याणि। अहं शोधग्रन्थसमर्पणार्थं यदा कार्यरतोऽभवम् तदा रात्रावेकस्मिन् पिता मत्सकाशन मागत्य “रे ! मातुः स्थितिः सम्यक् नास्ति। कासस्तु तीव्रतमो वर्तते। वैद्यकस्य सकाशं नयावः। आगच्छसि किम्? इत्यपृच्छत्।

I was in my last year of University education waiting to submit my thesis. The date to submit thesis was nearby. There were many tasks. While I was thus engaged in my thesis submission work, my father told me one night, “Mother’s condition is not good. Cough is severe. Let us take her to the doctor. Will you accompany me?”

अहं मुहूर्तं स्थित्वाऽवोचम् पितः ! श्वः मया : पावसमर्पणं करणीयमस्ति। अल्पस्तु कालः कर्तव्यानि बहूनि। अतः ….. इत्यहं मध्ये एव स्थगितवान्। मञ्चस्था माता समन्दहासं मन्दस्वरेण “तं तस्य कार्ये त्यजावः” इति कासकषायित – कण्ठा गद्गदस्वरेणावोचत्। अहं मुक्तः इति दीर्घ निवस्य मम कार्ये निमग्रोऽहम्। पिता तां चिकित्सालयमनयत्। वैद्यकस्यानुक्षणानुशीलनार्थं सा चिकित्सालये एव प्राविशत्।

Having thought for a mor ent, I replied. “Father, I shall submit my thesis tomorrow. Time is little, and work is more. So …” I stopped in midway. My mother said from the bed with a smile, “We shall leave him to his work.” She spoke with her voice affected by cough. I took a deep breath with relief, and continued my work. Father took her to hospital. She was admitted to the hospital for having continuous observation of the doctors.

कथं दिनद्वयमतीतमित्यहमजानन्नेव कालं यापितवान् । शोधग्रन्थस्समर्पितो मया। मध्याहनभोजनार्थमहं गृहमागतवान्। मातुः पार्थिव शरीरं गृहद्वारदेशे पार्वे स्थापितम्। बान्धवास्सर्वे समागताः। उत्तरक्रियास्सर्वाः अपि समाप्ताः। दिनानि गच्छन्ति। पिता निर्वेददृष्टिरेवासीत्। मत्तः साहाय्यं किमपि नापेक्षते स्म। पिता एव स्वयं पचति आवयोर्द्वयोः कृते। स्वकार्यालयकार्ये निमग्नस्सन्नपि ममक्षेमविषयेऽपि बद्धदृष्टिरासीत् सः। जीविकासम्पदनाभिलाषिणा मया कालगमनवेगः नावलोकितः। अतीतः पुनरेको वर्षः। अहं मम पि.हेच डि उपाधि प्राप्नवम्। तदनुपदमेव विश्वविद्यालयेऽध्यापकोऽप्यभवम् । मम पितृष्वसा आगत्य पित्रा साकं वार्तालापं कृत्वा स्वपुत्रीं मह्यं दातुं प्रस्तावमकरोत्। पित्रापि नेति नोक्तम्। मयाप्योमित्येवोक्तम्। अहमूढो जातः। लोकव्यवहार मूढोऽपिजातः।

I did not know how I spent the next two days; they passed without my notice. Thesis was submitted. I came home for lunch. Mother’s dead body was place near the front door. All the relatives arrived. Crematory rites were performed. Days passed. Father was dejected. He did not seek my help. He was cooking for both of us. Though he was engaged in his work, he took care of me. I did not check the speed at which time moved engaged as I was in searching for a job. A year passed. I received my doctorate degree. Immediately I became a teacher at the University. My maternal aunty arrived, and during her conversation with my father, brought up the topic of my marriage with her daughter. My father did not object. I was married. I became ignorant of the worldly affairs also.

AP Inter 2nd Year Sanskrit Study Material Chapter 4 अपर्याप्तः समयः

पिता स्वपदवीनिवृत्तोऽभवत्। अध्यात्मचिन्तनप्रवृत्तोऽभवत्। मत्तः तस्य काप्यपेक्षा नासीत्। एवं वर्षदशकं जातम्। विश्वविद्यालयेऽहं उत्तमाध्यापकः इति सपुरस्कारप्रशंसां बहुवारं प्राप्नवम्। पिता एकदा मामाहूय “इतोऽपि कियत्कालमहं जीविष्यामीति निर्धारणा नास्ति। परन्तु अन्तिमयात्रातः पूर्वमेवाह मेकवारं काशीक्षेत्रं गन्तुकामोऽस्मि। मां तत्र नयसि किम् “? इति अपृच्छत्। अहं दीर्घं निश्वस्य “पितः ! अवश्यं नेष्यामि, परन्तु न त्विदानीम्, समयाभावात्। यतः माम् विश्वविद्यालयनवानुसन्धानव्यवस्थाकल्पनार्थं अध्ययनबृन्दस्य नेतारं कृत्वा अमेरिकादेशं प्रेषयितुमिच्छन्ति अस्माकं कार्यालयाधिकारिणः। अस्मिन्नेव सप्ताहे मया गन्तव्यम्। अतः मंमागमनानन्तरं नेष्यामि” इत्यवोचम्।

Father retired from service. He became interested in spiritual life. He did not expect anything from me. Thus ten years passed. I received best teacher award many times in the University. Once my father told me “I don’t know how long do I live. But I want to visit Kasi before I draw my last breath. Do you take me there?” I sighed deeply and said, “Father, certainly I will take you there, but not now. I have no time. Because the university authorities want to send me to America, making me the leader of the study. committee in order to implement modern norms for research in the university. I have to leave in this week only. I will take you after my return.”

पिता निर्भावमेदुरः गीतापठनदृष्टिरेवासीत्। अहममेरिकादेशं गत्वा मासत्रयानन्तरं स्वगृहं प्रत्यागतवान्। यदाऽहं गृहं प्रविशन्नासम् गृहप्राङ्गणे पितुः मृतकलेबरदर्शनमलभे। वैद्यकाः – “पितुः सुदीर्घकालतोऽपि हृद्रोगपीडा स्यात्। स्वस्वास्थमलक्ष्य व्यवहृतवान् स्यात्। पर्यवसानमिदम्” इति वदन्तः निर्गतवन्तः। कालोचितक्रियास्सर्वा अपि निरूढाः।
.
Without showing any expression, father returned to his reading of the Gita. I went to America, and returned home after three months. As entered the house, I saw the dead body of my father in the out yard. Having said that father might have had heart disease for a long time, and carried on neglecting it, and the result was this, the doctors left. Funeral rites were performed.

बाल्यादपि मे कालः प्रचलनेवासीत्। इदानीं तु कालो धावति स्म। इतोऽपि विंशतिवर्षाः अतीताः। मम पुत्रः पुत्री च प्रवृद्धौ। गृहं कथं प्रचलतीति दृष्टि में नासीत्। तथा गृहपालनमकरोन्मे गृहिणी। पुत्रोऽपि मे विदेशेषूपाधि प्राप्तवान्। पुत्र्याः विवाहयन्ते निमग्रा मम पत्नी। अहं तु सर्वदा कार्यरतः एव। मम तु गृहविषयावेक्षणार्थं पर्यात्पसमयो न वर्तते। मम पन्याः अपि मत्तः विशेषापेक्षा कापि नासीत्। कदा रात्रिर्भवति कदा दिवसः भवतीति गणनापि नासीन्मे। शततमं पुस्तकं व्यरचयमहम्। तस्याविष्कारोत्सवः सप्ताहाभ्यन्तरे भविष्यतीति निश्चयो जातः।

Time was moving for me right from my childhood. Now it was running. Twenty years more passed. My son and daughter grew up. I didn’t have any knowledge about the household duties. My wife took care of everything. My son also got a job abroad. My wife was busy in finding a match for my daughter. I was always busy. I never had enough time to take care of house. My wife also .. never expected much from me. I did not know when the day came or when the night appeared. I authored my hundredth book. It was decided to release it during the week.

AP Inter 2nd Year Sanskrit Study Material Chapter 4 अपर्याप्तः समयः

तदानीं मम हृदये वेदानानुभूता। मम पत्नी मां वैद्यकसकाशं नीतवती। “श्रीधर ! अधिककार्यभारवशात् हृद्रोगः सम्प्राप्तः। कश्चित्कालं यावत् विश्रान्तिरपेक्षिता। एतदौषधसेवनं नियतरूपेण करणीयं भवता” इत्यवोचत् वैद्यकः। … शिरसा यद्यपि आमित्युक्तवान् तथापि मनसा तु वैद्यकसूचनाविषये बधिर एवासमहम् | मम पत्नी तु औषधानि समये समये मह्यमयच्छत्। अहं तु कदाचित् स्वीकरोमि। कदाचित् मम संगणकयन्त्रोत्पीटिकायाः उपर्येव त्यज्यन्तेऽसे वितौषधानि। उत्तरदिने मे पुस्तकाविष्कारः। रात्रौ मम प्रकोष्ठे मम पत्न्या स्थापितान्यौषधानि तत्रैवासन्। औषधसेवनार्थमपि पर्याप्तसमयः नासीत्। हृदयवेदाना आरब्धा। औषधमिदं वाक्यं समाप्य स्वीकरोमीति टङ्कणं कुर्वनासम्। हृदयवेदना तीव्रतमा आसीत्। टङ्कणं कर्तुं वा समीपे विद्यमानमौषधं स्वीकर्तुं वापि पर्याप्तसमयः नास्त्येव। मम हृदयकोशगता चरमश्वासहंसिका शरीरान्मे निर्गता।

Then I felt pain in my heart. My wife took me to the doctor. The doctor said, “Sridhar, you have heart disease because of your heavy work. Rest is needed for some time. You have to take these medicines regularly. “Though I nodded my head, in my heart I gave a deaf ear to his advice. My wife gave me medicines regularly. Sometimes I would take them. Sometimes they would remain unused on my computer table. My book release was on the next day. The medicines given by my wife last night remained in the room only. I did not have time even to take medicine. I felt pain in the heart starting again. I continued to type thinking that I would take the medicine after finishing the sentence. The pain increased. There was no time either to type or take medicine that was at hand. The swan of the last breath that was in my heart cage, flew away.

Leave a Comment