AP Inter 2nd Year Sanskrit Study Material Chapter 3 राजवाहनजननम्

Andhra Pradesh BIEAP AP Inter 2nd Year Sanskrit Study Material गद्यभागः 3rd Lesson राजवाहनजननम् Textbook Questions and Answers, Summary.

AP Inter 2nd Year Sanskrit Study Material 3rd Lesson राजवाहनजननम्

लघु समाधान प्रश्नाः Short Answer Questions

प्रश्न 1.
राजहंसः कः? तस्य नगरी का?
उत्तर:
राजहंसः मगधदेशस्य राजा। तस्य नगरी पुष्पपुरीं।

प्रश्न 2.
धर्मपालस्य कति पुत्राः? ते च के?
उत्तर:
धर्मपालस्य त्रयः पुत्रः आसन्। ते च सुमन्त्रः, सुमित्रः कामपालः च।

प्रश्न 3.
मानसारः कथं गदां प्राप्तवान्?
उत्तर:
मानसारः परमेश्वरं समाराध्य सन्तुष्टात् तस्मात् गदां प्राप्तवान्।

एकपद समाधान प्रश्नाः One Word Answers

प्रश्न 1.
राजवाहनः कस्य पुत्रः?
उत्तर:
राजहंसस्य।

प्रश्न 2.
राजहंसस्य पत्नी का?
उत्तर:
वसुमती

AP Inter 2nd Year Sanskrit Study Material Chapter 3 राजवाहनजननम्

प्रश्न 3.
दशकुमार विरचितं केन विरचितम्?
उत्तर:
दण्डिना

व्याकरणांशाः Grammar

सन्धयः

1. मालवनाथः + अपि = मालवनाथोऽपि – विसर्गसन्धिः
2. अनु + अतिष्ठम् = अन्वतिष्ठम् – यणादेशसन्धिः
3. सीमन्त + उत्सवम् = सीमन्तोत्सवम् – गुणसन्धिः
4. तत् + अनुज्ञातेन . = तदनुज्ञातेन – जश्त्वसन्धिः
5. मगध + ईश्वरस्य = मगधेश्वरस्य – गुणसन्धिः
6. अधि + अतिष्ठत् = अध्यतिष्ठत् – यणादेशसन्धिः
7. मथित + उद्धतारातिः = मथितोद्धतारातिः – गुणसन्धिः
8. सहसा + एव = सहसैव – वृद्धिसन्धिः
9. बाल + अलङ्कारेण = बालालङ्कारेण – सवर्णदीर्घसन्धिः

समासः

1. कथितकथ्यः – कथितं कथ्यं येन सः – बहुव्रीहि समासः
2. कृतातिथ्यः – कृतम् आतिथ्यं येन सः – बहुव्रीहि समासः
3. शस्त्राशस्त्रि – शस्त्रैः शस्त्रैः इदं युद्धं प्रवृत्तम् – बहुव्रीहि समासः
4. हस्ताहस्ति . – हस्ताभ्यां हस्ताभ्यां इदं युद्धं प्रवृत्तम् – बहुव्रीहि समासः
5. शरीरकार्यकारिणा – शरीरकायें करोतीति शरीरकार्यकारी, तेन – कुद्धृत्तिः – षष्ठीतत्पुरुष समासः

6. रचितदिगन्तरालपूर्त्या – दिशाम् अन्तरालम् दिगन्तरालम्
– षष्ठीतत्पुरुष समासः
– दिगन्तरालस्य पूर्तिः दिगन्तरालपूर्तिः
– षष्ठीतत्पुरुष समासः।
– रचिता दिगन्तरालपूर्तिर्यस्यास्सा, तया
– बहुव्रीहिसमासः

7. विरचितारातिसंतापेन – अरातीनां सन्तापः अरातिसन्तापः
– षष्ठीतत्पुरुष समासः
– विरचितः अरातिसन्तापः यस्य सः, तेन
– बहुव्रीहिसमासः

8. सतततुलितवियन्मध्यहंसः – सततं तुलितः सतततुलितः
– सुप्सुपासमासः
– वियतः मध्यं वियन्मध्यम्
– षष्ठीतत्पुरुषः
– वियन्मध्ये हंसः वियन्मध्यहंसः
– सप्तमीतत्पुरुषः
– सतततुलितः वियन्मध्यहंसः यस्य सः
– बहुव्रीहिसमासः

9. वाणिज्यनिपुणतया – निपुणस्य भावः निपुणत
– तद्धितवृत्तिः
– वाणिज्ये निपुणता, तया
– सप्तमीतत्पुरुषः

10. निजसम्पन्मनोरथरूपम् – निजां च सा सम्पच्च
– निजसम्पत्
– वि.पू.कर्मधारयः
– निजसम्पदः मनोरथः
– निजसम्पन्मनोरथः
– षष्ठीतत्पुरुषः
– निजसम्पन्मोरथस्य रूपम्
– षष्ठीतत्पुरुषः

AP Inter 2nd Year Sanskrit Study Material Chapter 3 राजवाहनजननम्

11. देवसन्दर्शनलालसमानसः – देवस्य संदर्शनं – देवसंदर्शनम्
– षष्ठीतत्पुरुषः
– देवसन्दर्शने लालसं
– देवसन्दर्शनलालसम्
– सप्तमीतत्पुरुषः
– देवसन्दर्शनलालसं मानसं यस्य सः
– बहुव्रीहिसमासः

12. शितिकण्ठदत्तशक्तिसारः – शितिः कण्ठः यस्य सः शितिकण्ठः
– बहुव्रीहिसमासः
– शक्ते: सारः
– शक्तिसारः
– षष्ठीतत्पुरुषः
– शितिकण्ठेन दत्तः शितिकण्ठदत्तः
– तृतीयातत्पुरुषः।
– शितिकण्ठदत्तः शक्तिसारः यस्य सः
– बहुव्रीहिसमासः

13. आराधितपुरारातिना – पुराणाम् अरातिः पुरारातिः
– षष्ठीतत्पुरुषः
– आराधितः पुरारातिः येन सः, तेन।
– बहुव्रीहिसमासः

14. अपनीताशेषतुल्यः – न विद्यते शेषः एषां ते अशेषाः
– बहुव्रीहिसमासः
– अशेषाश्च ते शल्याश्च अशेषशल्याः
– वि.पूर्व कर्मधारयः
– अपनीताः अशेषतुल्याः यस्य सः
– बहुव्रीहिसमासः

15. ऐश्वर्योपमितमहेन्द्राः – महान् चाऽसौ इन्द्रश्च ।
– वि.पूर्व कर्मधारयः
– ऐश्वर्येण उपमितः ऐश्वर्योपमितः
– तृतीयातत्पुरुषः
– ऐश्वर्योपमितः महेन्द्रः येषां ते
– बहुव्रीहिसमासः

16. अमन्दहृदयानन्द सम्फुल्लवदनारविन्दा – न मन्दः अमन्दः
– नञ् तत्पुरुषः
– हृदयस्य आनन्दः हृदयानन्दः
– षष्ठीतत्पुरुषः
– अमन्दश्चाऽसौ हृदयानन्दश्च अमन्दहृदयानन्दः
– वि.पूर्व कर्मधारयः
– अमन्दहृदयानन्देन सम्फुल्लम्
– तृतीयातत्पुरुषः
– अरविन्दमिव वदनम् वदनारविन्दम्
– उ. पूर्व. कर्मधारयः
– अमन्दहृदयानन्दसम्फुल्लं वदनारविन्दं यस्याः सा
– बहुव्रीहिसमासः

राजवाहनजननम् Summary in English

राजवाहनजननम् Introduction:

प्राचीनसंस्कृतसाहित्ये दण्डिमहाकवेः विशेषस्थानं वर्तते। अवन्तिसुन्दरी कथानुसारं दण्डिमहाकविः भारवेः प्रपौत्रः। विदर्भदेशे अचलपुरनिवासेषु ब्राह्मणेषु नारायणस्वामी प्रसिद्धः। तस्य पुत्र एव भारविः। भारवेः सुतः मनोरथः। मनोरथस्य चतुर्थपुत्रः वीरदत्तः। एतस्य भार्या गौरी। एतयोः पुत्र एव दण्डी। दण्डी बाल्यावस्थायामेव स्वपित्रोः वियोगं प्राप्तवान्। त्रयो दण्डिप्रबन्धाः त्रिषु लोकेषु विश्रुताः इति राजशेखरोक्तिः। ते च काव्यादर्शः, अवन्ति सुन्दरीकथा, दशकुमारचरितम् इति। दण्डिनः पदलालित्यमिति आर्योक्तिः। तच्च एतेषु प्रबन्धेषु स्पष्टं दरीदृश्यते।

Poet Dandin occupies an important place in Sanskrit literature. He was the great grandson of the famous poet Bharavi. Bharavi was the son of Narayana Swamy, a resident of Achalapura in Vidarbha. Manoratha was the son of Bharavi. Manoratha’s fourth son was Veeradatta, whose wife was Gowri. Dandin was their son.

Dandin authored Dasakumara charita, Avantisundarikatha and Kavyadarsa. The present lesson was taken from the Purvapithika of Dasakumaracharita. This describes the birth of Rajavahana to Rajahamsa, the king of Magadha.

राजवाहनजननम् Translation in English

अस्ति समस्तनगरीनिकषायमाणा मगधदेशशेखरीभूता पुष्पपुरी नाम नगरी। तत्र रचितदिगन्तरालपूर्त्या कीर्त्या अभिहितः सुरभितः विरचिता रातिसन्तापेन प्रतापेन सतततुलितवियन्मध्यहंसो राजहंसो नाम भूपो बभूव। तस्य वसुमती नाम सुमती लीलावती कुलशेखररमणी रमणी बभूव।

There was a city called Pushpapuri, the capital of Magadha, the touchstone to all other cities. The emperor of this city was Rajahansa, whose glory filled the quarters, who was anointed with the distress of the enemies, and who was like a swan in the skies. His queen was the noble Vasumati.

तस्य राज्ञः परमविधेयाः धर्मपाल पद्मोद्भक्-सितवर्मनामदेयाः कुलामात्याः त्रयः अभवन्। तेषां सितवर्मणः सुमति-सत्यवर्माणौ, धर्मपालस्य सुमन्त्र-सुमित्र कामपालाः, पद्मोद्भवस्य सुश्रुत-रत्नोद्भवौ इति तनयाः समभूवन्। तेषु धर्मशीलः सत्यवर्मा संसारासारतां बुद्ध्वा तीर्थयात्राभिलाषी देशान्तरमगमत्। दुर्विनीतः कामपालो जनकाग्रजन्मनः शासनमतिक्रम्य भुवं बभ्राम। रत्नोद्भवोऽपि वाणिज्यनिपुणतया पारावारतरणमकरोत्। इतरे मन्त्रिसूनवः पुरन्दरपुरातिथिषु पितृषु यथापूर्वमन्वतिष्ठन्।

The king had three devoted ministers namely Dharmapala, Padmodbhava and Sitavarma. Among them Sitavarma had two sons namely Sumati and Satyavarma, Dharmapala has three sons namely Sumantra, Sumitra and Kamapala, and Padmobhava had two sons by the name Susrutha and Ratnodbhava.

AP Inter 2nd Year Sanskrit Study Material Chapter 3 राजवाहनजननम्

ततः कदाचित् मगधनायको मालवेश्वरं प्रति सहेलं चतुरङ्गबलेन संयुतः संग्रामाभिलाषेन रेषेण महताविष्टः निर्ययौ। मालवनाथोऽपि साग्रहो अभिमुखीभूय भूयो निर्जगाम । तयोः अथ शस्त्राशखि हस्ताहस्ति-परस्पराभिहतसैन्यं जन्यम् अजनि। तत्र मगधराजः प्रक्षीणसकलसैन्य मण्डलं मालवराजं जीवग्राहम् अभिगृह्य कृपालुतया पुनरपि स्वराज्ये प्रतिष्ठापयामास। ततः सः अनपत्यतया नारायणं सकललोक कारणं निरन्तरम् अर्चयामास। अथ कदाचित् तदग्रमहिषी . देवी देवेन “कल्पवल्लीफलम् आप्नुहि” इति प्रभातसमये सुस्वप्नम् अवलोकितवती। सा तदा गर्भमधत्त। राजा अपि निजसम्पन्मनोरथानुरूपं देव्याः सीमन्तोत्सवं व्यक्त।

Of these, the religious Satyavarma understood the dryness of the worldly affairs and went on a pilgrimage to other countries. The undisciplined Kamapala roamed about the world disobeying the words of his father and elder brothers. Ratnodbhava crossed the oceans becoming an expert in business affairs. The other sons of the ministers held the posts of their fathers after their demise.

Later, once Rajahamsa marched against Manasara, the king of Malava followed by the fourpronged army, overcome by a fierce anbition of fighting with him. The king of Malava, who was angered, faced him. They fought killing one another with weapons, and in combat. At last Rajahamsa took Manasara as a prisoner as the latter’s army dwindled. He, however, gave his kingdom back. Later, as he had no children, he offered many prayers and offerings to Narayana the Creator of the World. As a result she was blessed by the Lord in her dream, and became pregnant. The king also arranged to celebrate the ritual of Simanta to her.

एकदा सुहृन्मन्त्रिपुरोहितैः सभायां सिंहासनासीनो द्वारपालेन व्यज्ञापि – “देव ! देवसन्दर्शनलालसमानसः कोऽपि विशिष्यार्चना) यतिः द्वारदेशम् अध्यास्ते” इति। तदनुज्ञातेन स संयमी नृपसमीपम् अनायि। भूपतिरायान्तं तं विलोक्य मन्त्रिजनसमेतः प्रणतमेनं मन्दहासमभाषत। “ननु तापस ! देशं सापदेशं भ्रमन् तत्र तत्र भवदभिज्ञातं कथयतु” इति। तेन अभाषि – “देव ! मालवेन्द्रनगरं प्रविश्य तत्र गूढतरं वर्तमानः तस्य राज्ञः समस्तम् उदन्तजातं विदित्वा प्रत्यागमम्। मानसारः भवतः पराजयमनुभूय वीतदयो महाकालनिवासिनं महेश्वरं समाराध्य तपःप्रभावसन्तुष्टात् अस्मात् एकवीरारातिघ्नीं भयदां गदा लब्वा आत्मनमप्रतिभटं मन्यमानो भवन्तमभियोक्तुमुधुङ्क्ते। ततः परं देव एव प्रमाणम् इति”।

One day, when the king was sitting in council with his ministers, he was informed by the guard that a certain venerable ascetic was waiting at the gate to see the king. When the king permitted, he was brought to his presence. On seeing him, the king who was surrounded by his ministers asked him with a smile. “O ascetic, tell me what information who have gathered while wandering from one place to another place under some pretext.” He said, “I went to the city of the king of Malava, and while staying there in disguise collected all the news about the king. The haughty Manasara, brooding over his defeat, unmindful of your generous for bearance, has been for a long time endeavouring to propitiate with very severe penance the mighty Mahakala, and receive from the pleased diety a club, which can kill one warrior, and thinking that he is.unconquerable, is now preparing for an attack on you.”

तदालोच्य निश्चिततत्कृत्यैरमात्यै राजा विज्ञापितोऽभूत्-“देव ! देवसहायेन यो मरातिरायाति। तस्मादस्माकं युद्धं सांप्रतमसाम्प्रतम्। सहसा दुर्गसंश्रयः कार्यः” इति। तैर्बहुधा विज्ञापितोऽप्यखर्वेण गर्वेण विराजमानो राजा तद्वाक्य मकृत्यमित्यनादृत्य प्रतियोद्धमनाः बभूव। शितिकण्ठदत्तशक्तिसारो मानसारो योद्धमनसाम् अग्रीभूय सामग्री समेतोऽक्लेशं मगधदेशं प्रविवेश। तदा तदाकर्ण्य मन्त्रिणो भूमहेन्द्रं मगधेन्द्रं कथञ्चिदनुनीय रिपुभिरसाध्ये विन्ध्याटवी. मध्येऽवरोधान्मूल बल रक्षितान्निवेशयामासुः। राजहंसस्तु दैन्यसैन्यसमेतः तीव्रगत्या निर्गत्याधिकरुषं द्विषं रुरोध। परस्परबद्धवैरयोरेतयोः शूरयोस्तदारणे वर्तमाने जयाकाङ्क्षी मालवदेशरक्षी मगधेश्वरस्य उपरि पुरा पुरारातिदत्तां गदां प्राहिणोत्। सा गदा सूतं निहत्य रथस्थं राजानं मूर्छितमकार्षीत्।

On hearing this report the ministers consulted together and said to the king, “This enemy is coming against us favoured by the gods, and war is not proper now. Let us strengthen the fortress.” Even though he was requested many times, the king, who was overcome with great pride, did not listen to them, and instead was prepared to fight. Manasara, who became powerful by the weapon given to him by Siva, easily invaded the city. On hearing that the ministers somehow took the consent of the king, and sent the womenfolk to the dense Vindhya forest guarded by the root force. Rajahamsa faced the enemy angrily. As the two armies fought the victory, the king of Malava threw the club given by Siva at Rajahamsa. It killed the charioteer and caused the king to fall down senseless.

अश्वा रथमादाय दैवगत्यान्तः पुरशरण्यं महारण्यं प्राविशन्। मालवनाथो जयलक्ष्मीसनाथो मगधराज्यं समाक्रम्य पुष्पपुरमध्यतिष्ठत्। तत्र अमात्याः राजानं अनवलोकितवन्तो दैन्यवन्तो देवीमवापुः। वसुमती तु तेभ्यो निखिलसैन्यक्षतिं राज्ञोऽदृश्यत्वं चाककॊद्विग्ना शोकसागरमग्ना रमणानुगमने मतिं व्यधत्त। “कल्याणि ! भूरमणमरणमनिश्चितम्। किञ्च दैवज्ञकथितो मथितोद्ध तारातिः सार्वभौमोभिरामो भविता सुकुमारः कुमारस्त्वदुदरे वसति। तस्मादद्य तव मरणमनुचितम्” इति। भूषित भाषितैर मात्यपुरोहितैः अनुनीयमानया तया क्षणं क्षणहीनया तूष्णीमस्थायि।

Then the horses dragged the chariot into the forest where the womenfolk took refuge. The king of Malava entered the city, and ascended the throne. The ministers, unable to find the king, went to the queen. The queen on hearing about the loss of the army, and the disappearance of her husband, determined to end her life, overcome by grief. The old brahmans and faithful counsellors said, “O glorious lady, we have no certain information of the king’s death : moreover, learned astrologers have declared that the child to be born of you is destined to become a mighty sovereign, and uproot the enemies. Therefore death is not proper for you at this time.” Thus comforted, she remained silent.

AP Inter 2nd Year Sanskrit Study Material Chapter 3 राजवाहनजननम्

अथार्धरात्रे निद्रानिलीननेत्रे परिजने विजने शोकपारावारमपार मुत्तर्तुमशक्नुवती सेनानिवेशदेशं निःशब्दलेशं शनैरतिक्रम्य यस्मिन्यस्य संसक्ततया तदानयनपलायनश्रान्ता गन्तुमक्षमाः क्षमापतिरथ्याः पथ्याकुलाः पूर्वमतिष्ठस्तस्य निकटवटतरोः शाखायां मृतिरेखायामिव कचिदुत्तरीयार्द्धन बन्धनं मृतिसाधनं विरच्य मर्तुकामाभिरामा साश्रुकण्ठा व्यलपत् – “भूनायक! भवानेव भाविन्यपि जन्मनि वल्लभो भवतु” इति । तदाकर्ण्य मागधो देवीवाक्यमिव निश्चिन्वानस्तन्वानः प्रियवचनानि शनैस्तामाह्वयत्। सा. ससंभ्रममागत्य अमन्दहृदयानन्द संफुल्लवद नारविन्दा तमुपोषिताम्या मिवानिमिषिताम्यां लोचनाम्यां पिबन्ती विकस्वरेण स्वरेण पुरोहितामात्य जनमुच्चैराहूय तेभ्यस्तमदर्शयत्।

At midnight, oppressed by intolerable grief, she rose up, and evading her sleeping attendants and the guards outside, went into the forest. There she tied a piece of her saree to the branch of a tree, near which the exhausted horses dragged the chariot, and stood tired, and there she made a noose. She cried saying, “O lord, let you be my husband in the next birth also.” The king, having realized that it was his wife’s voice, softly called her by name. She, hardly believing her senses for joy, cried out loudly for help, as if feasting on him with eyes that were fasting, and called the priests and ministers and showed him to them.

राजा प्रशंसितदैवमाहात्म्यैरमात्यैरभाणि – “देव! रथ्यचयः सारथ्यमपगमे रथं रभसात् अरण्यमनयत्” इति। “तत्र निहतसैनिकग्रामे संग्रामे मालवपतिना आराधितपुरारातिना गदया दयाहीनेन ताडितो मूळमागत्यात्र वने निशान्तपवनेन बोधितोऽभवम्” इति महीपतिरकथयत्। ततो मन्त्रिनिवहेन विरचितदैवानुकूल्येन कालेन शिविरमानीय अपनीताशेषशल्यों विकसितनिजाननारविन्दो राजा सहसा विरोपित व्रणोऽकारि। मगधाधिपतिरधिकाधिरमात्यसंमत्या मृदुभाषितया तया वसुमत्या समबोधि –

The ministers, having praised the greatness of the god, said – “Lord, when the charioteer died, the horses brought the chariot to the forest.” The king said that he was hit by the mace by the merciless Malava king, and having lost consciousness was revived by the cool breeze of the night. The ministers then carried the king at the proper time to the camp, and removed the darts, and treated his wounds.

“देव ! सकलस्य भूपालकुलस्य मध्ये भवानद्य विन्ध्यवनमध्यं निवसति इति, जलबुद्धदसमाना सम्पत्तटिल्लतेव सहसैव उदेति नश्यति च। तन्निखिलं दैवायत्तमेवावधार्य कार्यम्। किञ्च पुरा हरिचन्द्ररामचन्द्रमुख्या असंख्या महीन्द्रा ऐषोपमितमहेन्द्रा दैवतन्त्रं दुःखयन्त्रं सम्यगनुभूय पश्चादनेककालं निजराज्य मकुर्वन्। तद्धदेव भवान्भविष्यति। कञ्चन कालं विरचितदैवसमाधिः तिष्ठतु तावत्” इति।

When he was sufficiently recovered, the charming Vasumati, instructed by the ministers, said to him, “Among all the kings, you are now staying in a forest means that prosperity, like a bubble on the water, or a flash of lightening, appears and disappears in a moment. We should act, having understood that everything is in the hand of god only. Former kings Harischandra, Ramachandra and others, who were equal to Indra in riches and suffered for a long time the hardships of adversity; yet later they ruled for a long time. You also will be like them only. Engage yourself in meditation for some time.”

ततः सकलसैन्यसमन्वितो राजहंसः वामदेवनामानं तपोधनं निजाभिलाषा वाप्तिसाधनं जगाम। तं प्रणम्य तेन कृतातिथ्यः तस्मै कथित कथ्यस्तदाश्रमे कञ्चन कालमुषित्वा निजराज्याभिलाषी सोमकुलावतंसो मुनिमभाषत- “भगवान् ! मानसारः प्रबलेन दैवबलेन मां निर्जित्य मद्भोग्यं राज्यमनुभवति। तद्वदहमप्युग्रं तपो विरच्य तमरातिमुन्मूलयिष्यामि लोकशरण्येन भवत्कारुण्येनेति नियमवन्तं भवन्तं प्राप्नवम्” इति।

Afterwards, followed by his entire army, the king went to consult a very celebrated rishi, Vamadeva for the accomplishment of his wishes. Having been well received by the holy man, he stayed in his hermitage for sometime, and desiring to get back his kingdom, said to him : “O father, Manasara, has overcome me with the strong help of god, and now holds the kingdom which ought to be mine. I will shrink from no penance which you shall advise, if by such means I may obtain the favour of the gods, and be restored to my former power.”

AP Inter 2nd Year Sanskrit Study Material Chapter 3 राजवाहनजननम्

ततस्त्रिकालज्ञस्तपोधनो राजानमवोचत् – “सखे ! शरीरकार्यकारिणा तपसालम्। वसुमतीगर्भस्थः सकलरिपुकुलमर्दनो राजनन्दनो नूनं सम्भविष्यति, कञ्चन कालं तूष्णीमास्स्व” इति। गगनचारिण्यापि वाण्या सत्यमेतत् इति तदेव अवाचि। राजापि मुनिवाक्यमङ्गीकृत्यातिष्ठत्। ततः वसुमती सुमुहूर्ते सकललक्षण लक्षितं सुतमसूत। ब्रह्मवर्चसेन तुलितवेधसं पुरोधसं पुरस्कृत्य कृत्यविन्महीपतिः कुमारं सुकुमारं जातसंस्कारेण बालालङ्कारेण च विराजमानं राजवाहननामानं व्यधत्त। तस्मिन्नेव काले सुमति-सुमित्र सुमन्त्र सुश्रुतानां मन्त्रिणांप्रमति-मित्रगुप्तमन्त्रगुप्त विश्रुताख्याः सूरवो चिरायुषः समजायन्त। राजवाहनो मन्त्रिपुत्रैरात्म मित्रैः सह बालकेलीरनुभवन्नवर्धत।

Vamadeva, well acquainted with all past, present, and future events, thus answered him : “O friend, there is no need of penance in your case; only wait patiently; a son, who is in the womb of Vasumati will certainly be born to you who will crush all your enemies and restore your fortunes.” Then a voice was heard in the air, saying, “This is true.” The king, fully believing the prophecy of the muni, waited. Later, the queen gave birth to a son possessing all good marks. His father performed the rites of birth to the boy under the guidance of the effulgent sage, and gave the name of Rajavahana to him. About the same time sons were born to his four ministers Sumati, Sumitra, Smantra and Susruta, who were named as Pramati, Mitragupta, Mantragupta, and Visruta. Rajavahana grew playing with the sons of the ministers.

Leave a Comment