AP Inter 2nd Year Sanskrit Grammar समासाः

Andhra Pradesh BIEAP AP Inter 2nd Year Sanskrit Study Material Intermediate 2nd Year Sanskrit Grammar समासाः Questions and Answers.

AP Inter 2nd Year Sanskrit Grammar समासाः

षोढा समासाः संक्षेपात् अष्टाविंशतिधा पुनः।
तत्र अष्टधा तत्पुरुषः सप्तधा कर्मधारयः ॥
सत्पधा च बहुव्रीहिः द्विगुराभाषितो द्विधा।
द्वन्द्वोऽपि द्विविधो ज्ञेयः अव्ययीभावो द्विधा मतः ॥

समसनं समासः। A compound is a combination of words. When two or more meaningful words are combined into a single word, it is called a compound. Vigrahavakya is giving the meaning of the compound dissolving it into the separate words. There are four types of compounds.

1. तत्पुरुष समासः अष्टविधः ८(8)
2. कर्मधारय समासः सत्पविधः ७(7)
3. बहुव्रीहि समासः सत्पविधः ७(7)
4. द्विगु समासः द्विविधः २(2)
5. द्वन्द्व समासः द्विविधः २(2)
6. अव्ययीभाव समासः द्विविधः २(2)
२८ (28)

1. तत्पुरुष समासः (उत्तरपदार्थप्रधानः)
तत्पुरुषोऽष्टविधोऽभूत् प्रथमादि विभक्तिनञ् कृतैर्भेदैः।
उत्तरपदजनितार्थो मुख्यः तत्रेति पण्डितैः ख्यातः ॥

A compound where the second member gets importance.

It is again sub-divided into Tatpurusha, Karmadharaya and Dwigu.

AP Inter 2nd Year Sanskrit Grammar समासाः

2.1. तत्पुरुषसमासः
Tatpurusha compound has eight varieties as shown below depending on the case endings.

Examples :
Name of the Tatpurusha Compound Vigrahava

समासनाम समासपदम् विग्रहवाक्यम्
1. प्रथमातत्पुरुष समासः उत्तरकायः उत्तरं कायस्य
2. द्वितीयातत्पुरुष समासः कृष्णश्रितः कृष्णं श्रितः
3. तृतीयातत्पुरुष समासः विद्यानिपुणः विद्यया निपुणः
4. चतुर्थीतत्पुरुष समासः यूपदारु यूपाय दारु
5. पञ्चमीतत्पुरुष समासः व्याघ्रभीतः व्याधात् भीतः
6. षष्ठीतत्पुरुष समासः वृक्षमूलम् वृक्षस्य मूलम्
7. सप्तमीतत्पुरुष समासः ईश्वराधीनम् ईश्वरे अधीनम्
8. नञ् तत्पुरुष समासः अहिंसा न हिंसा

 

2. कर्मधारयसमासः (तत्पुरुषः समानाधिकरणः कर्मधारयः)।

कविभिः सप्तविधः स्यादित्येवं कर्मधारयः कथितः।
तत्पुरुषान्तर्भावात् तद्वत् प्राधान्यमीरितं चास्य ||
विशेषणं पूर्वपदे तथोभयत्रापि विशेषणं च।
यस्योपमानं परतस्तदादौ संभावना चाप्यवधारणा च ॥

When the constituent members of a Tatpurusha are in the same case, then it is Karmadharaya. It is formed by qualifying or comparing words and is generally called by the placement of the qualifying or comparing word.

Example :
Name of the Karmadharaya Compound Vigrahavakya

समासनाम समासपदम् विग्रहवाक्यम्
1. विशेषणपूर्वपदकर्मधारय समासः अल्पवातः अल्पश्च असौ वातश्च
2. विशेषणपूर्वपदकर्मधारय समासः मयूरव्यंसकाः व्यंसकाःच ते मयूराःच
3. विशेषणपूर्वपदकर्मधारय समासः स्नातानुलिप्ताः स्नाताश्च ते अनुलिप्ताश्च
4. उपमानपूर्वपदकर्मधारय समासः लतातन्वी लता इव तन्वी
5. उपमानोत्तरपदकर्मधारय समासः पुरुषव्याघ्रः पुरुषः व्याघ्रः इव
6. संभावनापूर्वपदकर्मधारय समासः विन्ध्यपर्वतः विन्ध्यइति पर्वतः
7. अवधारणापूर्वपदकर्मधारय समासः युक्तिरत्नानि युक्तयः एव रत्नानि

3. द्विगुसमासः
स चैकवद्भाव्यनेकवद्भावीति द्विधा द्विगुः।
कर्मधारय एवास्यान्तर्भावो बुधर्मतः ।।

समासपदम् विग्रहवाक्यम्
1. त्रिलोकी त्रयाणां लोकानां समाहारः
2. त्रिभुवनम् त्रयानां भुवनानां समारः
3. नवरात्रम् नवानां रात्रीनां समाहारः
4. सप्तर्षयः सप्त च ते ऋषयश्च

4. द्वन्द्वसमासः (उभयपदप्रधानः द्वन्द्वः)
यस्मिन् समासे प्राधान्यम् उभयोः स्यात्पदार्थयोः।
स हि द्वन्द्वो द्विधा ज्ञेयः बुधैरिति विनिश्चितः ॥

If all the constituent members of the compound get equal importance, it is Dvandva.

समासपदम् विग्रहवाक्यम्
1. रामलक्ष्मणौ रामः च लक्ष्मण: च
2. कंसकृष्णौ कंसः च कृष्णः च
3. शिवकेशवौ शिवः च केशवः च
4. धर्मार्थकामाः धर्मः च अर्थः च कामः च

5. अव्ययीभावसमासः
यस्याभवत् पूर्वपदेव्ययस्य नाम्नो विधानात् द्विविधं च लक्ष्म।
पूर्वः पदार्थोपि च यत्र मुख्यः तमव्ययीभावमुदाहरामः ॥

समासपदम् विग्रहवाक्यम्
1. यथाशक्ति शक्तिम् अनतिक्रम्य
2. प्रत्यक्षम् अक्ष्णोः समीपे
3. शाकप्रति शाकस्य लेशः

AP Inter 2nd Year Sanskrit Grammar समासाः

6. बहुव्रीहिसमासः (अन्यपदप्रधानः बहुव्रीहिः)

A compound where a meaning other than that denoted by the constituent members is indicated is called Bahuvrihi compound.

सप्तभिराख्याभिर्वा विख्यातो यः सवैबहुव्रीहिः।
अन्यपदार्थो मुख्यः कथितो विबुधैर्बहुव्रीहौ ॥
द्वाभ्यां पदाभ्यां बहुभिः पदैर्वा संख्योभयोः सा पदयोः पदाग्रे।
यस्याभवत्पूर्वपदे सहश्च दिगन्तरालव्यतिहारलक्ष्मा ॥
बहुव्रीहिः प्रायेण अन्यपदार्थो विशिष्यनिघ्नश्च ॥

समासनाम समासपदम् विग्रहवाक्यम्
1. द्विपदबहुव्रीहिसमासः महाबलः महत् बलं यस्य सः
2. बहुपदबहुव्रीहिसमासः नीलोज्वलवपुः नीलं उज्वलं वपुः यस्य सः
3. संख्योभयपदबहुव्रीहिसमासः द्वित्राः द्वौ वा त्रयो वा
4. संख्योत्तरपदबहुव्रीहिसमासः उपदशाः दशानां समीपे ये सन्ति ते
5. सहपूर्वपदबहुव्रीहिसमासः सहपुत्रः पुत्रेण सह वर्तते इति
6. दिगन्तराललक्षणबहुव्रीहिसमासः दक्षिणपूर्वा दक्षिणस्याश्च पूर्वस्याश्चदिशः अन्तराले
7. व्यतिहारलक्षणबहुव्रीहिसमासः दण्डादण्डि दण्डै:दण्डैः प्रहृत्य इदं युद्धं प्रवृत्तम

Leave a Comment