AP Inter 2nd Year Sanskrit Study Material Poem 3 चाणक्यनीतिशास्त्रम्

Andhra Pradesh BIEAP AP Inter 2nd Year Sanskrit Study Material पद्यभागः 3rd Poem चाणक्यनीतिशास्त्रम् Textbook Questions and Answers, Summary.

AP Inter 2nd Year Sanskrit Study Material 3rd Poem चाणक्यनीतिशास्त्रम्

लघु समाधान प्रश्नाः Short Answer Ouestions

प्रश्न 1.
सर्वेन्द्रियाणां, प्रधानं किम्?
उत्तर:
सर्वेन्द्रियाणां नयनं प्रधानम्।

प्रश्न 2.
पृथिव्यां त्रीणि रत्नानि कानि?
उत्तर:
पृथिव्यां त्रीणि रत्नानि जलं, अन्नं, सुभाषितम्।

प्रश्न 3.
व्याधितस्य मित्रं किम्?
उत्तर:
व्याधितस्य औषधं मित्रम्|

एकपदसमाधान प्रश्नः One Word Answers

प्रश्न 1.
सर्वत्र का पूज्यते?
उत्तर:
विद्या।

AP Inter 2nd Year Sanskrit Study Material Poem 3 चाणक्यनीतिशास्त्रम्

प्रश्न 2.
यावज्जीवं कः दहेत्?
उत्तर:
यावज्जीवं जडः दहेत्।

प्रश्न 3.
कैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते?
उत्तर:
मूढैः।

व्याकरणांशाः Grammar

सन्धयः

1. दिवा + अपि = दिवापि – सवर्णदीर्घसन्धिः
2. एकेन + अपि = एकेनापि – सवर्णदीर्घसन्धिः
3. यदि + इच्छति = यदीच्छति – सवर्णदीर्घसन्धिः
4. च + अल्पदुःखाय = चाल्पदुःखाय – सवर्णदीर्घसन्धिः
5. सर्व + अङ्गे = सर्वाङ्गे – सवर्णदीर्घसन्धिः
6. न + एव = नैव – वृद्धिसन्धिः
7. सर्व + औषधीनाम् = सर्वोषधीनाम् – वृद्धिसन्धिः
8. सर्व + इन्द्रियाणाम् = सर्वेन्द्रियाणाम् – गुणसन्धिः
8. सौख्येषु + अशनम् = सौख्येष्वशनम् – यणादेशसन्धिः
9. मनाक् + अपि = मनागपि – जश्त्वसन्धिः
10. यावद् + जीवम् = यावज्जीवम् – श्चुत्वसन्धिः
11. तत् + वनम् = तद्वनम् – जश्त्वसन्धिः
12. एक: + हि = एको हि – विसर्गसन्धिः
13. जातः + अपि = जातोऽपि – विसर्गसन्धिः
14. मक्षिकायाः+ तु = मक्षिकायास्तु – विसर्गसन्धिः
15. साधवः + न = साधवो न – विसर्गसन्धिः
16. धर्मः + मित्रम् = धर्मो मित्रम् – विसर्गसन्धिः

समासाः

1. विद्यायुक्तः – विद्यया युक्तः – तृतीयातत्पुरुषसमासः
2. दुर्जनसंसर्गः – दुर्जनस्य संसर्गः – षष्ठीतत्पुरुषसमासः
3. साधुसमागमः – साधोः समागमः – षष्ठीतत्पुरुषसमासः
4. कार्यहन्ता – कार्यस्य हन्ता – षष्ठीतत्पुरुषसमासः
5. आत्मशक्तिः – आत्मनः शक्तिः – षष्ठीतत्पुरुषसमासः
6. अनित्यताम् – न नित्यताम् – नञ् तत्पुरुषसमासः
7. शुष्कवृक्षः – शुष्कश्चासौ वृक्षश्च – विशेषणपूर्वपदकर्मधारयसमासः
8. जातमृतः – जातश्चासौ मृतश्च – विशेषणपूर्वपदकर्मधारयसमासः

चाणक्यनीतिशास्त्रम् Poem Summary in English

चाणक्यनीतिशास्त्रम् Poem Introduction:

प्रपञ्चे अतिपुरातननागरिकतायाः संस्कृतेश्च निलयः भारतदेशः। तत्तत् देशवासिनां वेषभाषाः, आचारव्यवहाराः, कुटुम्बजीवनविधानम्, राज्यपालनविधानम् इत्यादयः बाह्यविषयाः नागरिकतेति नाम्ना व्यपदिशन्ते। व्यक्तीनाम् अभिरुचयः, परस्पर – सम्बन्धविशेषाः, आध्यात्मिकज्ञानसम्पत् इत्येवमादयो आन्तरङ्गि कविषयाः संस्कृतिरिति च व्यवह्रियन्ते। नागरिकता, संस्कृतिः इति द्वे अपि अस्मिन् देशे महदुन्नतिं प्राप्य विराजेते। देशे पौराणां योगक्षेमादीनां प्राधान्यं ददत्, कल्पितं राज्यपालनविधानं चाणक्यस्य नीतिशास्त्रे परिदृश्यते। एतादृशं पालनविधानं नागरिकतायाः महदौन्नत्यं ज्ञापयति।

चाणक्यः क्रीस्तोः पूर्वं ४०० संवत्सरसमीपकाले आसीदिति ऐतिहासिकाः अभिप्रयन्ति। अस्यैव विष्णुगुप्तः कौटिल्यः इत्यादीनि नामान्तराण्यपि वर्तन्ते। चणकपुत्रत्वात् चाणक्य इति अयं व्यवहरति। अर्थार्जने कुटिलानुपायान् अयमपदिशतीति कारणेन कौटिल्य इति प्रसिद्धि प्राप्तवान्। चाणक्यः चन्द्रगुप्तस्य महामात्य आसीत्।

चाणक्यः एव राजनीतिसूत्राणीति नाम्ना, अष्टसु अध्यायेषु ५६२ सूत्राणि रचितवान् इति प्रसिद्धिः। लघुचाणक्यम् वृद्धचाणक्यम् – चाणक्यनीतिः- चाणक्य नीतिशास्त्रम् इति व्यवह्रियमाणानां सर्वेषामपि सूत्राणां एतानि चाणक्यसूत्राण्येव मूलभूतानि। तान्याधारीकृत्य केचनश्लोकग्रन्थाः आगताः। तेषु अन्यतमात् स्वीकृतोऽयं पाठ्यभागः। अयं पाठ्यभागः जीवने आवश्यकान् मानवीयाननेकानंशान् अवबोद्धं महता उपकरिष्यति।

सूचना – अत्र * चिह्निताः प्रतिपदार्थभावबोधपूर्वकं कण्ठस्थीकरणीयाः।

AP Inter 2nd Year Sanskrit Study Material Poem 3 चाणक्यनीतिशास्त्रम्

India is the seat of ancient culture and civilization. Its literature in Sanskrit deals with many topics including ethics, polity and philosophy. Chanakya, who lived around 500 B.C. was a great scholar. He was known as Vishnugupta and Kautilya also. He authoured Arthasastra as a handbook on administration. He also wrote Nitisutras numbering 562 that are divided into eight chapters. There are Laghu Chanakyam, Vriddha Chanakyam’s Chanakya Niti etc. books which have these verses as their source.

The present lesson is a collection from one of these works, and teaches the code of conduct.
(Note : Word meanings have been given for * marked verses only)

चाणक्यनीतिशास्त्रम् Poem Translation in English

1. सत्येन धार्यते पृथिवी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्व सत्ये प्रतिष्ठितम्॥

पदच्छेद (Word Division) :
सत्येन, धार्यते, पृथिवी, सत्येन, तपते, रविः, सत्येन, वाति, वायुः, च, सर्वं, सत्ये, प्रतिष्ठितम्।

अन्वयक्रम :
सत्येन, पृथिवी, धार्यते, रविः, सत्येन, तपते, सत्येन, वायुः, वाति, च, सर्वं, सत्ये, प्रतिष्ठितम्।

भाव (Substance) :
By truth this Earth is held, by truth the Sun shines, and by truth the winds blows. Everything is established in truth.

2. सर्वोषधीनाममृतं प्रधानं
सर्वेषु सौख्येष्वशनं प्रधानम्।
सर्वेन्द्रियाणां नयनं प्रधानं
सर्वेषु गात्रेषु शिरः प्रधानम्॥

पदच्छेद (Word Division):
सर्वोषधीनाम्, अमृतं, प्रधान, सर्वेषु, सौख्येषु, अशनं, प्रधान, सर्वेन्द्रियाणा, नयनं, प्रधानं, सर्वेषु गात्रेषु, शिरः, प्रधानम्।

अन्वयक्रम :
सर्वोषधीनाम्, अमृतं, प्रधान, सर्वेषु, सौख्येषु, अशनम्, प्रधानां, सर्वेन्द्रियाणां, नयनं, प्रधानम्, सर्वेषु, गात्रेषु, शिरः, प्रधानम्।

भाव (Substance):
Nectar is the most important one among all the medicines. Among all the pleasures, food is the primary one. Among all the senses, the eyes are the most valuable. Among all the limbs, the head is the most important one.

3. धनधान्यप्रयोगेषु विद्यासंग्रहणेषु च।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्॥

पदच्छेद (Word Division) :
धनधान्यप्रयोगेषु, च, विद्यासंग्रहणेषु च, आहारे व्यवहारे च त्यक्तलज्जः, सुखी, भवेत्।

अन्वयक्रम :
धनधान्यप्रयोगेषु, च विद्यासंग्रहणेषु, आहारे च, विहारे च त्यक्तलजः, सुखी भवेत् ।

भाव (Substance) :
While dealing with money or rice, or while learning or in matters regarding food or business, one who puts aside modesty becomes happy.

AP Inter 2nd Year Sanskrit Study Material Poem 3 चाणक्यनीतिशास्त्रम्

4. परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्जयेतादृशं मित्रं विषकुम्भं पयोमुखम् ॥

पदच्छेद (Word Division) :
परोक्षे, कार्यहन्तारं, प्रत्यक्षे, प्रियवादिनम्, वर्जयेत्, तादृशं, मित्रं, विषकुम्भं, पयोमुखम्।

अन्वयक्रम :
परोक्षे, कार्यहन्तारं, प्रत्यक्षे, प्रियवादिनम्, तादृशं, मित्रं, पयोमुखं, विषकुम्भं इव, वर्जयेत्।

अर्था (Meanings) :
परोक्षे = behind, कार्यहन्तारं = one who spoils our work, प्रत्यक्षे = in front of us, प्रियवादिनम् = who speaks sweetly, तादृशम= such, मित्रम् = friend, पयोमुखम = milk topped, with milk at rim, विषकुम्भम् = pitcher of poison, वर्जयेत् = should abandon.

भाव (Substance) :
One should abandon such a friend who spoils our work at our back, but speaks sweetly in front of us as he is a vessel filled with poison but having milk at rim.

5. विद्वान् प्रशस्यते लोके विद्वान् गच्छति गौरवम्।
विद्यया लभ्यते सर्व विद्या सर्वत्र पूज्यते॥

पदच्छेद (Word Division) :
विद्वान्, प्रशस्यते, लोकेः, विद्वान्, गच्छति, गौरवम् विद्यया, लभ्यते, सर्वं, विद्या, सर्वत्र, पूज्यते।

अन्वयक्रम :
लोके, विद्वान्, प्रशस्यते, विद्वान्, गौरवं, गच्छति, विद्यया, सर्वं, लभ्यते, विद्या, सर्वत्र, पूज्यते।

भाव (Substance) :
In this world, a scholar is praised, and he gets honour. Everything is gained by education. Learning is honoured everywhere.

6. विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च।
व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च॥

पदच्छेद (Word Division) :
विद्या, मित्रं, प्रवासेषु, भार्या, मित्रं, गृहेषु, च, व्याधितस्य, औषधं, मित्रं, धर्मः, मित्रं, मृतस्य, च।

अन्वयक्रम :
प्रवासेषु, विद्या, मित्रम्, च, गृहेषु, भार्या, मित्रं, व्याधितस्य, औषधं, मित्रं,च, मृतस्य, धर्मः, मित्रम्।

भाव (Substance) :
During exile, our learning is our friend. At home, wife is our friend. To a sick person, medicine is the friend. For a dead man, Dharma is his friend.

7. वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम्।
वृथा दानं धनाढ्येषु वृथा दीपो दिवापि च॥

पदच्छेद (Word Division) :
वृथा, वृष्टिः, समुद्रेषु, वृथा, तृप्तेषु, भोजनम्, वृथा, दानं, धनाढ्येषु, वृथा, दीपः दिवापि च।

अन्वयक्रमः
समुद्रेषु, वृष्टिः, वृथा, तृप्तेषु, भोजनं, वृथा, धनाढ्येषु, दानं, वृथा, च, दिवापि, दीपं, वृथा।।

भाव (Substance) :
A shower on the ocean is fruitless. Feeding those whose stomachs are full is wasteful. Donation to a rich person is useless. A lamp during daytime is also useless.

8. मूर्खः चिरायुः जातोऽपि तस्माज्जातमृतो वरः।
मृतः स चाल्पदुःखाय यावज्जीवं जडो दहेत्॥

पदच्छेद (Word Division) :
मूर्खः, चिरायुः, जातः, अपि, तस्मात्, जातमृतः, वरः, मृतः, स, च, अल्पदुःखाय, यावज्जीवं, जडः, दहेत्।

अन्वयक्रम :
जातः, मूर्खः, चिरायुः, अपि, तस्मात्, जातमृतः, वरः, मृतः, सः, अल्पदुःखाय, जङः, यावज्जीवं, दहेत्।

भाव (Substance) :
It is better to be get a dead child than giving birth to a long living idiot. The grief over the dead one will be short lived whereas the fool causes sorrow throughout the life.

9. एकेनापि सुवृक्षण पुष्पितेन सुगन्धिना।
वासितं तद्वनं सर्वं सुपुत्रेण कुलं तथा॥

पदच्छेद (Word Division) :
एकेन, अपि, सुपुष्पेण, पुष्पितेन, सुगन्धिना, वासितं, तत्, वनं, सर्वं, सुपुत्रेण, कुलं, तथा।

अन्वयक्रम :
पुष्पितेन, एकेन, अपि, वृक्षण, सुगन्धिना तत्, सर्वं, वनं, वासितम्, तथा सुपुत्रेण कुलं।

भाव (Substance):
Just as one well-grown tree sweet-smelling flowers makes the garden fragrant, so also a noble son makes the family famous.

10. एकेन शुष्कवृक्षेण दह्यमानेन वह्निना।
दह्यते तद्वनं सर्वं कुपुत्रेण कुलं तथा॥

पदच्छेद (Word Division) :
एकेन, शुष्कवृक्षेण, दह्यमानेन, वह्निना, दह्यते, तद्वनं, सर्वं, कुपुत्रेण, कुलं, तथा, एकेन।

अन्वयक्रम :
वह्निना, दह्यमानेन, एकेन, शुष्कवृक्षण, तत्, सर्वं, वनं, दह्यते, तथा, ‘कुपुत्रेण, कुलम।

भाव (Substance) :
Just as one dry tree that has caught fire burns the whole forest, so also a bad son causes the downfall of the family.

AP Inter 2nd Year Sanskrit Study Material Poem 3 चाणक्यनीतिशास्त्रम्

11. किं जातैः बहुभिः पुत्रैः शोकसन्तापकारकैः।
वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम्॥

पदच्छेद(Word Division) :
किं, जातैः, बहुभिः, पुत्रैः, शोकसन्तापकारकैः, वरं, एकः, कुलालम्बी, यत्र, विश्राम्यते, कुलम्।

अन्वयक्रम :
शोकसन्तापकारकैः, जातैः, बहुभिः, पुत्रैः, किं ? यत्र, कुलं, विश्राम्यते, कुलालम्बी, एकः, वरम् ।

भाव (Substance):
What is the use with the birth of many , sons who cause sorrow to the family? It is better if one son, on whom the family can depend, is born.

12. पादाभ्यां न स्पृशेदग्निं गुरुं पण्डितमेव च।
नैव गां न कुमारी च न वृद्धं न शिशुं तथा॥

पदच्छेद (Word Division) :
पादाभ्यां, न, स्पृशेत्, अग्निं, गुरूं, पण्डितम्, एव, च, नैव, गां, न, कुमारी, च न, वृद्धं, न, शिशुं, तथा।

अन्वयक्रम :
अग्निं, गुरूं, च, पंडितं, पादाभ्याम्, न, स्पृशेत्, गां, कुमारी, च वृद्धं, शिशुं, न, स्पृशेत्।

भाव (Substance) :
One should not touch with feet either fire or a teacher or a scholar or a cow or a girl or an old man or a child.

13. शैले शैले न माणिक्यं मौक्तिकं न गजे गजे।
साधवो न हि सर्वत्र चन्दनं न वने वने॥

पदच्छेद (Word Division) :
शैले, शैले, न, माणिक्य, मौक्तिकं, न, गजे, गजे, साधवः, न, हि, सर्वत्र, चन्दनं, न, वने, वने।

अन्वयक्रम :
शैले, शैले, माणिक्यं, न, गजे, गजे, न, मौक्तिकं, सर्वत्र, साधवः, न, वने, वने, न, चन्दनम्।

भाव (Substance):
On every mountain, there will not be gemstones. Pearls are not be available from every elephant. Noble people will not be there everywhere. Not in all forests sandal trees are found.

14. पृथिव्यां त्रीणि रन्तानि जलमन्नं सुभाषितम्।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते॥

पदच्छेद (Word Division) :
पृथिव्यां त्रीणि, रत्नानि, जलं, अन्नं, सुभाषितम्, मूढैः, पाषाणखण्डेषु, रत्नसंज्ञा, विधीयते।

अन्वयक्रम :
पृथिव्यां, जलं, अन्नं, सुभाषितं, त्रीणि, रन्तानि, मूढैः, पाषाणखण्डैः, रन्तसंज्ञा, विथीयते।

अर्था (Meanings) :
पृथिव्याम् = On the earth, जलम् = water, अन्नम् = food, सुभाषितम् = and wise saying, त्रीणि = are the three, रत्नानि = gems, मूढैः = a fool, पाषाणखण्डेषु = to stones, रत्नसंज्ञा = the name of gem, विधीयते = gives.

भाव (Substance) :
Water, food and wise sayingthese three are the gems on the earth. But, a fool gives the name of a gem to a piece of stone.

AP Inter 2nd Year Sanskrit Study Material Poem 3 चाणक्यनीतिशास्त्रम्

15. जले तैलं खले गुह्यं पात्रे दानं मनागपि।
प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः॥

पदच्छेद (Word Division) :
जले, तैलं, खले, गुह्यं, पात्रे, दानं, मनाक्, अपि, प्राज्ञे, शास्त्रं, मनाक्, अपि स्वयं, याति, विस्तारं, वस्तुशक्तितः।

अन्वयक्रम :
जले, तैलं, खले, गुह्यं, पात्रे, दानं, प्राने, शास्त्रं, मनाक्, अपि, वस्तुशक्तिः , स्वयं, विस्तारं, याति।

भाव (Substance) :
Oil in water, secret told to an evil one, even little donation to the worthy and teaching to the wise one spread by the power of those receptacles.

16. प्रस्तावसदृशं वाक्यं प्रभावसदृशं प्रियम्।
आत्मशक्तिसमं कोपं यो जानाति स पण्डितः॥

पदच्छेद (Word Division) :
प्रस्तावसदृशं, वाक्यं, प्रभावसदृशं, प्रियम्, आत्मशक्तिसमं, कोपं, यः, जानाति, सः पण्डितः।

अन्वयक्रम :
प्रस्तावसदृशं, वाक्यं, प्रस्तावसदृशं, प्रियं, आत्मशक्तिसमं, . कोपं, यः जानाति, सः, पंडितः।

भाव (Substance):
He is a scholar, who speaks according to the context, who does good according to the merit and who shows anger according to his limit.

17. तक्षकस्य विषं दन्ते मक्षिकायास्तु मस्तके।
वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जने विषम्॥

पदच्छेद (Word Division) :
तक्षकस्य, विष, दन्ते, मक्षिकायाः, तु, मस्तके, वृश्चिकस्य , विष, पुच्छे, सर्वाङ्गे, दुर्जने, विषम्।

अन्वयक्रम : तक्षकस्य, विषं, दन्ते, मक्षिकायाः, मस्तके, वृश्चिकस्य, पुच्छे, विषं, दुर्जने, सर्वाङ्गे, विषम्।

अर्था (Meanings) :
तक्षकस्य = to a serpent, विषम् = poison, दन्ते = in fangs, मक्षिकायाः = to a bee.or spider, मस्तके = in head (poison), वृश्चिकस्य = to a scorpion, पुच्छे = intali, विषम् = poison, दुर्जने = to an evil person, सर्वांगे = throughout the body, विषम् = poison.

भाव (Substance) :
A serpent has poison is its fangs, a bee has in its head, and a scorpion has poison in its tail. But an evil person has poison in his whole body.

18. त्यज दुर्जनसंसर्ग भज साधुसमागमम्।
कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यताम्॥

पदच्छेद (Word Division) :
त्यज, दुर्जनसंसर्ग, भज, साधुसमागमम्, कुरु, पुण्यमहोरात्रं, स्मर, नित्यम्, अनित्यताम्।

अन्वयक्रम :
दुर्जनसंसर्गं, त्यज, साधुसमागमम्, भज, अहोरात्रं, पुण्यं, कुरु, नित्यम्, अनित्यताम्, स्मर।

भाव (Substance) :
Abandon the company of the wicked, enjoy the company of the noble, do meritorious deeds, and remem: ber every day the impermanence of the world.

19. दानेन पाणिः न तु कङ्कणेन
स्नानेन शुद्धिः न तु चन्दनेन।
मानेन तृत्पिः न तु भोजनेन
ज्ञानेन मुक्तिः न तु मण्डनेन॥

पदच्छेद (Word Division):
दानेन, पाणिः, न, तु, कंकणेन, स्नानेन, शुद्धिः, न, तु, चन्दनेन, मानेन, तृप्तिः, न, तु भोजनेन, ज्ञानेन, मुक्तिः, न, तु, मण्डनेन।

अन्वयक्रम :
पाणिः, दानेन (शोभते) तु, कंकणेन न, स्नानेन, शुद्धिः (भवति) तु, न, चन्दनेन, मानेन, तृप्तिः (भवति), तु, न, भोजनेन, ज्ञानेन, मुक्तिः तु, न, मण्डनेम।

भाव (Substance):
Hand shines by donation, and not by bracelet. Body gets cleansed by bath but not by sandal paste. One gets satisfaction if he is honoured, and not by meals. By knowledge, one is liberated, and not by ornaments.

AP Inter 2nd Year Sanskrit Study Material Poem 3 चाणक्यनीतिशास्त्रम्

20. दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता।
अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः॥

पदच्छेद (Word Division) :
दातृत्वं, प्रियवक्तृत्वं, धीरत्वं, उचितज्ञता, अभ्यासेन, न, लभ्यन्ते, चत्वारः, सहजा, गुणाः।

अन्वयक्रम :
दातृत्वं, प्रियवक्तृत्वं, धीरत्वं, उचितज्ञता, अभ्यासेन, न, लभ्यन्ते, चत्वारः, गुणाः, सहजाः।

अर्था (Meanings) :
दातृत्वम् = generosity, प्रियवक्तृत्वं = speaking sweetly, धीरत्वम् = courage, उचितज्ञता = doing things properly, अभ्यासेन = by practice, न लभ्यन्ते = are not acquired, चत्वारः = these four, गुणाः = qualities, सहजाः = (they are) natural.

भाव (Substance):
The four qualities namely generosity, sweet speech, courage and propriety are not acquired by practice, but are natural.

Leave a Comment