AP Inter 2nd Year Sanskrit Study Material Chapter 1 मन्दविषसर्पकथा

Andhra Pradesh BIEAP AP Inter 2nd Year Sanskrit Study Material गद्यभागः 1st Lesson मन्दविषसर्पकथा Textbook Questions and Answers, Summary.

AP Inter 2nd Year Sanskrit Study Material 1st Lesson मन्दविषसर्पकथा

निबन्ध प्रश्नः Essay Questions

प्रश्न 1.
मन्दविषसर्पकथां संग्रहेण लिखत।
(Write the story of Mandavishasarpakatha.)
(अथव)
‘मन्दविषसर्पकथा’ इति पाठ्यभागस्य साराशं लिखत।
(Summarize the lesson Mandavishasarpakatha.)
उत्तर:
Introduction :
The lesson Mandavishasarpakatha is an extract from the Hitopadesa written by Narayana Pandita. This tells the story of an old serpent that devoured the frogs making friendship with them.

The old serpent :
There was a serpent named Mandavisha in a ruined forest. Because of its old age, it became unable to search for food, and remained on the bank of a pond. A frog asked him why he did not take food. Then the serpent told his story.

Kapila’s advice :
Once Mandavisha had bitten the son of Kaundinya, a Brahmin from Brahmapura. When the father was crying rolling on the ground, an educated Brahmin Kapila advised him not to weep like that. He said. “Death is certain for those who are born, and birth is certain for those dead. Death is certain, now or hundred years after. मृत्युर्वै प्रणिनां ध्रुवः। Death approaches nearer and nearer day by day. One will not have permanent association with anything, even with his body. “On hearing that, Kaundinya decided to retire to the forests. But Kapila objected to it, saying that there would be evils even in a forest. To the detached one, the house itself would be a hermitage. निवृत्तरागस्य गृहं तपोवनम्। He said that there was pain only, and not happiness in the world.

Kapila advised Kaundinya to renounce all the associations. If it was not possible, he should associate with the good only. सतां सङ्गो हि भेषजम् | Then the Brahmin cursed the serpent to become a vehicle of the frogs. Hence, Mandavisha arrived there.

Killing the frogs :
When the frog informed this to their king, he came and rode on the back of the serpent for some time. The next day, the frog-king permitted the serpent to have the frogs as his food, as he was weak. Then the serpent killed all the frogs one by one, and at last ate the frog king too.

क्रमशः खादितवान्। मण्डूकनाथमपि भक्षितवान्।
जातस्य हि ध्रुवो मृत्युः
ध्रुवं जन्म मृतस्य चः
अपि स्वेन शरीरेण
किमुतान्येन केननित्।
निवृत्तरागस्य गृहं तपोवनम्
सतां सङ्गो हि भेषजाम्
स्कन्धेनापि कहेत् शतून्
कार्यमासाद्य बुहिमान्
जातस्य हि ध्रुवो मृत्युः
ध्रुवं जन्म मृतस्य च
संभोगो हि वियोगस्य
संच्वचयति सम्भवम्

लघुसमाधान प्रश्नः Short Answer Questions

प्रश्न 1.
मन्दविषो नाम सर्पः कुत्र वसति?
उत्तर:
मन्दविषः नाम सर्पः जीर्णोधाने वसति।

प्रश्न 2.
कौण्डिन्येन मन्दविषः किम् इति शप्तः?
उत्तर:
कौण्डिन्येन मन्दविषः- “अद्य आरभ्य मण्ङ्गकानां वाहनं भविष्यसि” इति शप्तः

AP Inter 2nd Year Sanskrit Study Material Chapter 1 मन्दविषसर्पकथा

प्रश्न 3.
हितोपदेशे कति भागाः सन्ति? ते च के?
उत्तर:
हितोपदेशे चत्वारः भागाः सन्ति। ते

  1. मित्रलाभः
  2. मित्रभेदः
  3. विग्रहः
  4. सन्धिः

एकपदसमाधान प्रश्नः One Word Answers

प्रश्न 1.
कौण्डिन्यस्य पुत्रः कः?
उत्तर:
सुशीलः

प्रश्न 2.
मण्डूकनायः कः?
उत्तर:
जालपादः

प्रश्न 3.
हितोपदेशः केन विरचितः
उत्तर:
नारायणपण्डितेन

सन्दर्भ वाक्यानि Annotations

1. मृत्युर्वे प्राणिनां ध्रुवः।
परिचय :
एतत-वाक्यं, ‘मन्दविषसर्पकथा” इति पाठ्यभागात् स्वीकृतम् अस्य पाठ्यभागस्य रचयिता नारायणपण्डितः।

सन्दर्भ :
पुत्रशोकं अनुभवन्तं कौण्डिन्यं कपिलः प्रति एवं अवदत्

भाव :
सर्वेषां प्राणिनां मृत्युः निश्चयम्

विवरणम् :
जातस्य मरणं, मृतस्य जननं निश्चयम्, अतः सर्वेषां प्राणिनां मृत्युः ध्रुवम्।

2. निवृतरागस्य गृहं तपोवनम्।
परिचय :
एतत-वाक्यं, “मन्दविषसर्पकथा” इति पाठ्यभागात् स्वीकृतम् अस्य पाठ्यभागस्य रचयिता नारायणपण्डितः।।

सन्दर्भ :
तपःकर्तुं बनाय प्रस्थितं कौण्डिन्यं प्रति कपिलः एवं अवदत्।

भाव :
विरक्तस्य जनस्य गृहमेव तपोवल तुल्यम्।।

विवरणम् :
सर्वे पञ्चेन्दियाणि वशेयुः, तदा एव तस्य शान्तिः सिध्यति, तस्मिन् समये गृहः एव तपोवनसदृशम्

AP Inter 2nd Year Sanskrit Study Material Chapter 1 मन्दविषसर्पकथा

3. सतां सङ्गो हि भेषजम्
परिचय :
एतत-वाक्यं, “मन्दविषसर्पकथा” इति पाठ्यभागात् स्वीकृतम् अस्य पाठ्यभागस्य रचयिता नारायणपण्डितः।

सन्दर्भ :
शोकाविष्टं कौण्डिन्यं पति कपिलः एवं अवदत् । भावः सज्जनसांगत्यं एव सज्जनां भेषजम्।

विवरणम् :
सर्वे सज्जनसाङ्गत्यं करणीयम् तदा एव जीवनं सुखमयं भवेत्

व्याकरणांशाः Grammar

सन्धयः

1. तत्र + आगत्य = तत्रागत्य – सवर्णदीर्घसन्धिः
2. आहारम् = स्वाहारम् – सवर्णदीर्घसन्धिः
3. दुःखमेव + अस्ति = दःखमेवास्ति – सवर्णदीर्घसन्धिः
4. च + उक्तम् = चोक्तम् – गुणसन्धिः
5. येन + एवम् = येनैवम् – वृद्धिसन्धिः
6. इति + आह = इत्याह – यणादेशसन्धिः
7. तत् + वचनम् = तद्वचनम् – जश्त्वसन्धिः
8. तत् + अलम् = तदलम् – जश्त्वसन्धिः
9. यः + तिष्ठति = यो तिष्ठति – विसर्गसन्धिः
10. संयोगः + हि = संयोगो हि – विसर्गसन्धिः
11. मन्दविषः + नाम = मन्दविषो नाम – विसर्गसन्धिः
12. सर्पः + अवदत = सर्पोऽवदत् – विसर्गसन्धिः
13. असमर्थः + अस्मि = असमर्थोऽस्मि – विसर्गसन्धिः
14. शोकः + अयम् = शोकोऽयम् – विसर्गसन्धिः
15. ततः + तम् = ततस्तम् – विसर्गसन्धिः
16. पुनः + गच्छेत् = पुनर्गच्छेत् – विसर्गसन्धिः

समासाः

1. दुःखार्तस्य – दुःखेन आर्तः, तस्य – तृतीयातत्पुरुषसमासः
2. मण्डूकनाथः – मण्डूकानां नाथः – षष्ठीतत्पुरुषसमासः
3. द्रव्यसञ्चयः – द्रव्यस्य सञ्चयः – षष्ठीतत्पुरुषसमासः
4. अनित्यम् – न नित्यम् – नञ्तत्पुरुषसमासः
5. अज्ञानम् – न ज्ञानम् – नञ् तत्पुरुषसमासः
6. असारम् – न सारम् – नञ्तत्पुरुषसमासः
7. अकुत्सितः – न कुत्सितः – नञ् तत्पुरुषसमासः
8. अनतिक्रमणीयः – न अतिक्रमणीयः – नञ् तत्पुरुषसमासः
9. मन्दभाग्यः – मन्दं भाग्यं यस्य सः – बहुव्रीहिसमासः

मन्दविषसर्पकथा Summary in English

मन्दविषसर्पकथा Introduction:

संस्कृतसाहित्ये नीतिबोधककथासाहित्यस्य महत्स्थानमस्ति। एतत् साहित्यं पाठकानां विद्यार्थिनां च जीवने उन्नतिं साधयितुं महता उपकरिष्यति। पूर्वसूरिभिः मानवजीवनोन्नतिं लक्षीकृत्य नैकानि नीतिकथाकाव्यानि संरचितानि । तेषु विष्णुशर्मणा रचितं पञ्चतन्त्रमिति नीतिकथाकाव्यं प्रमुखं स्थानमावहति। तमनुसृत्य अनन्तरकाले इतराण्यपि कानिचन नीतिकथाकाव्यानि विरचितानि वर्तन्ते। तादृशेषु हितोपदेशः अन्यतमः। अस्मिन् चत्वारो भागास्सन्ति ते च –
१.मित्रलाभः २.मित्रभेदः ३. विग्रहः ४. सन्धिः इति।

एतेषु चतुर्षु भागेषु बालानां नीतिः उपदिश्यते। अस्य रचयिता नारायणपण्टिनः। पूर्वेक्तेषु भागेषु सन्धिभागात् स्वीकृता मन्दविषसर्पकथा एव प्रकृतपाठ्यभागः।

In Sanskrit literature, there are many works that are dedicated to teaching morals through stories. The pride of place in this category undoubtedly goes to Vishnu Sarma, who authored the Panchatantra. Following him, many authors wrote such works. Narayana Pandita’s Hitopadesa was one of them. It is divided into four parts namely, Mitralabha, Mitrabheda, Vigraha and Sandhi. The present lesson is taken from the fourth book Sandhi.

मन्दविषसर्पकथा Translation in English

स्कन्धेनापि वहेत् शत्रून् कार्यमासाद्य बुद्धिमान्।
यथा वृद्धेन सर्पण मण्डूका विनिपातिताः॥

A wise one should even carry an enemy on his back in order to get his job done just as the frogs were devoured by the old serpent.

There was a serpent named Mandavisha in a ruined forest. Because of its old age, it became unable to search for food, and remained on the bank of a pond.

A frog saw it from a distance, and asked it: “Why don’t you search for food?”

The serpent replied, “O good one, please leave. What use is there by questioning the state of this unfortunate one?”

The frog getting eagerly asked it, “Please, tell anyway.”

The serpent replied, “O good one, Unfortunately, I have bitten the twenty year old meritorious son of the traditional Kaundinya, who lives in Brahmapura. Seeing his son Suseela by name dead, Kaundinya was overcome by grief, and rolled on the ground. Then all his relatives residing in Brahmapura gathered there.

It was said-

He is a relative who is with you during a celebration, adversity, war, drought, revolution in the kingdom, at an assembly and in a crematorium.

AP Inter 2nd Year Sanskrit Study Material Chapter 1 मन्दविषसर्पकथा

ततो दूरादेव केनचिन्मण्डूकेन दृष्टः पृष्टश्च – किमिति भवान् आहारं नान्विष्यति? सर्पोऽवदत्- गच्छ भद्र! किं ते मम मन्दभाग्यस्य वृत्तान्तप्रश्नेन?

ततः सजातकौतुकः स भेक:- सर्वथा कथ्यताम् इत्याह।

सर्पोऽप्याह – भद्र! ब्रह्मपुरवासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रः विशतिवर्षदेशीयः सर्वगुणसम्पन्नो दुर्दैवात् मया नृशंसेन दष्टः । ततस्तं सुशीलनामानं पुत्रं मृतमवलोक्य शोकेन मूर्छितः कौण्डिन्यः पृथिव्यां लुलोठ । अनन्तरं ब्रह्मपुरवासिनः सर्वे बान्धवाः तत्रागत्य उपविष्टाः।

तथा चोक्तम्-
उत्सवे व्यसने युद्धे दुर्भिक्षे राष्ट्रविप्लवे।
राजद्वारे श्मशाने च यास्तिष्ठति स बान्धवः॥

Then Kapila, an educated one said. “O Kaundinya, you are a fool as you grieve for a dead one. Listen.”

Death is certain for one who is born. Birth is certain for one who is dead. Either today or after hundred years, death is but certain for beings.

तत्र कपिलो नाम स्नातकोऽवदत् – ‘अरे कौण्डिन्य! मूढोऽसि, येनैवं विलपसि। शृणु –

जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च।
अद्य वाब्दशतान्ते वा मृत्युः प्राणिनां ध्रुवः॥

अपरश्च –
आसन्नतरतामेति मृत्युर्जन्तोदिने दिने।
आघातं नीयमानस्य वध्यस्येव पदे पदे॥

यतः –
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः।
ऐश्वर्यं प्रियसंवासो मुह्येत्तत्र न पण्डितः॥

यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति।
विश्रम्य च पुनर्गच्छेत् तद्वद्भूतसमागमः॥

Also –
Day by day death approaches the beings nearer and nearer, just as a person holding the weapon approaches the one to be killed.

Because –
Youth, form, life, money, wealth and association with the dear ones are all impermanent. The wise one is not enamoured by them.

Just as a traveler stays under the shade for some time, gets relaxed, and again goes on his way, so also is the association of the beings.

अन्यश्च –
पञ्चभिनिर्मिते देहे पञ्चत्वं च पुनर्गते।
स्वां स्वां योनिमनुप्राप्ते तत्र का परिदेवना॥
नायमत्यन्तसंवासो लभ्यते येन केनचित्।
अपि स्वेन शरीरेण किमुतान्येन केनचित्॥

अपि च –
संयोगो हि वियोगस्य संसूचयति सम्भवम्।
अनतिक्रमणीयस्य जन्ममृत्योरिवागमम्॥

And Also –
What is there to weep for, when the five component elements of the body go back to their source on the death of the body?

One does not get permanent association with anything, even with one’s body. What to speak about others?

Also,
Association itself foretells the possibility of inescapable separation just as the happening of birth and death.

AP Inter 2nd Year Sanskrit Study Material Chapter 1 मन्दविषसर्पकथा

अथ संसारं विचारय, शोकोऽयम् अज्ञानस्य प्रपश्चः।

पश्य
अज्ञानं कारणं न स्याद् वियोगो यदि कारणम्।
शोको दिनेषु गच्छत्सु वर्धतामपयाति किम्॥
तद्भद्र! तदात्मानमनुसन्धेहि, शोकचर्चा च परिहर।
यतः – अकाण्डपातजातानां गात्राणां मर्मभेदिनाम्।
गाढशोकप्रहाराणामचिन्तैव महौषधम्॥

ततः तद्वचनं निशम्य प्रबुद्ध इव कौण्डिन्यः उत्थाय अब्रवीत् – तदलमिदानीं गृहनरकवासेन, वनमेव गच्छामि।

Think about the world. Such grief is the phenomenon of the ignorant.

See –
If ignorance is not the cause, but rather separation is the cause (of grief), then the grief should grow only, why does it come down?

Hence, o good one, control yourself. Stop grieving.

For,
To the very hurting wounds that pierce the vitals falling upon suddenly, non-contemplation alone is the medicine.

On hearing his words, Kaundinya stood up as if getting up from sleep and said, “Then enough with this living in the hell of house, I shall retire to the forest.”

कपिलः पुनराह –
वनेऽपि दोषाः प्रभवन्ति रागिणां
गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः।
अकुत्सिते कर्मणि यः प्रवर्तते
निवृत्तरागस्य गृहं तपोवनम् ॥

विशेषतश्च –
जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम्।
संसारमिममत्यन्तमसारं त्यजतः सुखम्॥

यत: –
दुःखमेवास्ति न सुखं यस्मात्तदुपलक्ष्यते।
दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते॥
तद्भद्र! तदात्मानमनुसन्धेहि, शोकचर्चा च परिहर।

Kapila said again –
There will be evils to the sensuous one even in a forest. There can be penance at home also in the nature of controlling the senses. For the disinterested one who indulges in good deeds, house is the hermitage.

Especially :
Happiness will be there to him who renounces the world that is highly devoid of any essence, and is afflicted with the sufferings of birth, death, old age and disease.

For,
There is pain only, and not happiness, and that is seen. When pain is relieved, the name happiness is given to it.

कौण्डिन्यो ब्रूते – एवमेव ततोहं तेन शोकाकुलेन ब्राह्मणेन शप्तो यद् – अद्यारभ्य मण्डूकानां वाहनं भविष्यसि इति।

कपिलो ब्रूते – सम्प्रति उपदेशासहिष्णुः भवान् । शोकाविष्टं ते हृदयम् । तथापि कार्यं शृणु –

सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते।
स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम्॥

एतत् श्रुत्वा स कौण्डिन्यः कपिलोपदेशामृतप्रशान्तशोकानलो यथाविधि दण्डग्रहणमकरोत्। अतो ब्राह्मणशापात् मण्डूकान् वोढुम् अत्र तिष्ठामि इति।

अनन्तरं तेन मण्डूकेन गत्वा मण्डूकनाथस्य जालपादनाम्नः अग्रे तत्कथितम्। ततोऽसौ अत्रागत्य मण्डूकनाथः तस्य सर्पस्य पृष्ठमारूढवान्। स च सर्पः तं पृष्ठे कृत्वा चित्रपदक्रमं बभ्राम।

(Kaundinya said) Thus I have been cursed by the grief · stricken Brahmin to be the vehicle of the frogs from that day onwards.

Kapila said – “Now you do not listen to any advice”. Your heart is engulfed by sorrow. Still listen to what should be done.

Renounce all associations. If it is not possible to do so, associate with the good. Association with the good is the remedy.

On listening to that Kaundinya with the fire of his grief having been extinguished by the nectar of the advice of Kapila, became a mendicant. Because of the curse of the Brahmin, I have come here to carry the frogs.”

Then the frog went to his master Jalapada and reported everything. Then the king of the frogs arrived there, and sat on the back of the serpent. That serpent carried him on its back moving in different ways.

AP Inter 2nd Year Sanskrit Study Material Chapter 1 मन्दविषसर्पकथा

परेधुः चलितुमसमर्थ तं मण्डूकनाथः अवदत् किमय भवान् मन्दगतिः?
सर्पो ब्रूते – देव! आहारविरहात् असमर्थोऽस्मि।
मण्डूकनाथः अवदत्- अस्मदाझया मण्डूकान् भक्षय।

ततः स सर्पः – गृहीतोऽयं महाप्रसादः इत्युक्त्वा क्रमशः सर्वान् मण्डूकान् खादितवान्। अथ निर्मण्डूकं सरो विलोक्य मण्डूकनाथोऽपि तेन खादितः।

अतोहं ब्रवीमि – स्कन्धेनापि वहेत शत्रून् कार्यमासाद्य बुद्धिमान् इत्यादि।

The next day, when he was unable to move, the lord of the frogs asked him. “Why are you moving slowly today?”

The serpent replied – “Lord, as I have not eaten, I am weak.”
Then the lord of the frogs said – “By my order, eat the frogs.”

Then serpent said, “I receive this great favour”, and started to eat the frogs. Once the pond had become devoid of the frogs, the lord of the frogs was also devoured by it.

(Hence I said, “A wise one should carry even the enemy on the back in order to accomplish the task”)

Leave a Comment