Andhra Pradesh BIEAP AP Inter 2nd Year Sanskrit Study Material शेमुषीपरीक्षा Questions and Answers.
AP Inter 2nd Year Sanskrit शेमुषीपरीक्षा
1. अभ्यास
अस्ति कस्मिंश्चित् पर्वतैकदेशे महान् वृक्षः। तत्र च सिन्धुकनामा कोऽपि पक्षी प्रतिवसति स्म। तस्य पुरीषे सुवर्णमुत्पद्यते। अथ कदाचित् तमुद्दिश्य व्याधः कोऽपि समाययौ। स च पक्षी तदग्रत एव पुरीषमुत्ससर्ज। अथ पतनसमकालमेव तत्सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयमगमत्। अहो – मम शिशुकालादारभ्य शकुनि – बन्ध – व्यसनिनोऽशीति – वर्षाणि समभूवन्। न च कदाचित्पक्षिपुरीषे सुवर्ण दृष्टम् इति विचिन्त्य तत्र वृक्षे पाशं बबन्ध।
There was a tree on a hill. A bird by name Sindhuka lived in it. Its excretion was full of gold. Once a hunter came for it. The bird excreted in front him. On seeing it turning into gold while dropping down, the hunter was astonished. From my childhood onwards, I have been catching birds, and spent eighty years. But I never saw gold in the excretion of a bird. Having thought so, he put a snare on the tree.
प्रश्नाः
प्रश्न 1.
वृक्षे प्रतिवसतः पक्षिणो नाम किम्?
उत्तर:
वृक्षे प्रतिवसतः पक्षिणो नाम सिन्धुकः।
प्रश्न 2.
कस्मिन् सुवर्णमुत्पद्यते?
उत्तर:
पुरीषे सुवर्णमुत्पद्यते।
प्रश्न 3.
पक्षिणमुद्दिश्य कः समायही?
उत्तर:
पक्षिणमद्दिश्य व्याधः समायहौ।
प्रश्न 4.
स पक्षी कुत्र पुरीषमुत्ससर्ज?
उत्तर:
स पक्षी व्याधरय अग्रत एव पुरीषमत्ससर्ज।
प्रश्न 5.
व्याधः वृक्षे कं बबन्ध?
उत्तर:
व्याधः वृक्षे पाशं बबन्ध।
2.अभ्यास
कस्मिंश्चित् वनोद्देशे करालकेसरो नाम सिंहः प्रतिवसति स्म। तस्य धूसरको नाम सृगालः सदैवानुयायी परिचारकोऽस्ति। अथ कदाचित् तस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतराः प्रहारा: सञ्जाताः यैः पदमेकमपि चलितुं न शक्नोति। तस्य अचलनाच्च धूसरकः क्षुत्क्षामकण्ठो दौर्बल्यं गतः। अन्यस्मिन्नहनि तमवोचत – ” स्वामिन! बुभुक्षया पीडितोऽहम्। पदात्पदमपि चलितुं न शक्नोमि। तत्कथं ते शुश्रूषां करोमि”। सिंह आह – ” भोः! गच्छ अन्वेषय किञ्चित् सत्त्वम्। येनेमाम् अवस्थां गतोऽपि व्यापादयामि”।
A lion named Karaiakesara lived in some forest. He had a servant Dhusaraka, a jackal who followed him always. Once he was seriously injured while fighting with an elephant, and as a result was unable to move. Because of his immobility, Dhusaraka became weak, afflicted with hunger. One he said to the lion — “Lord. I am suffering from hunger. I cannot take even one step. How can I serve you?” The lion told him – “Go, find some animal. I shall kill it even in this condition”.
प्रश्नाः
प्रश्न 1.
सिंहस्य नाम किम्?
उत्तर:
सिंहस्य नाम करालकेसरी।
प्रश्न 2.
परिचारकः कः?
उत्तर:
परिचारकः धूसरको नाग सृगालः।
प्रश्न 3.
सृगालः येन सह युद्धं कृतवान्?
उत्तर:
सृगालः हस्तिना सह युद्धं कृतवान्।
प्रश्न 4.
धूसरकः सिंहं प्रति किमब्रवीत्?
उत्तर:
धूसरक: सिंहं प्रति – ‘स्वामिन्! बुभुक्षया पीडितोऽहम्’ पदात्पदमपि चलितुं न शक्नोमि। तत्कथं ते शुश्रूषां करोमि” इति अब्रवीत।
प्रश्न 5.
सिंहः सृगालं प्रति किमाह?
उत्तर:
सिंहः सृगालं प्रति – ”भोः ! गच्छ: अन्वेषय किंञ्चित्, सत्त्वम्। येनेमाम् अवस्थां गतोऽपि व्यापादयामि’।
3.अभ्यास
चित्रकूटपर्वतनिकटतपोवनमध्ये मनोहरः कश्चित् देवालयोऽस्ति। तत्र च पर्वते अत्युदग्रात् शिखरात् विमला कापि जलधारा पतति। तत्र स्नानमात्रेण महापातकादीन्यपि नश्यन्ति। किञ्च, यस्तु पापीयान् स्नानमाचरति तस्य देहात् अतीव कलुषमुदकं निस्सरति । तेन सः पूतो भवति। अन्यच्च तत्र कश्चित् ब्राह्मणो महति होमकुण्डे प्रतिदिनं होमं करोति। न जाने तस्य कति वत्सरा गता इति । प्रतिदिनं कुण्डाबहिः प्रेरितं भस्म पर्वताकारम् अस्ति। स केनापि न भाषते। एवमतिविचित्रं स्थानमद्राक्षीदयं जनः।
There was a beautiful temple in the sacred grove near the Chitrakuta mountain. Pure water fell down from the highest peak of the mountain. By bathing in it, severe sins would be cleared. When a sinner took bath, very muddy water would come out of his body. Then he would become pure. There a Brahmin performed ritual in a big fire altar every day. How many years passed for him was not known. Every day, the ash that came out of the altar took the form of a hill. He did not speak to anyone. Such a very strange place the people saw.
प्रश्नाः
प्रश्न 1.
देवालयः कुत्र अस्ति?
उत्तर:
देवालयः चित्रकूटपर्वतनिकटतपोवनमध्ये अस्ति।
प्रश्न 2.
जलधारा कस्मात् पतति?
उत्तर:
जलधारा अत्युदग्रात् शिखरात् पतति।
प्रश्न 3.
प्रतिदिनं होमकुण्डे कः होमं करोति?
उत्तर:
प्रतिदिनं होमकुण्डे कश्चित् ब्राह्मण होमं करोति।
प्रश्न 4.
जनः कीदृशं स्थानमद्रासीत्?
उत्तर:
जनः अतिविचितं स्यानं अहासीत।
प्रश्न 5.
तस्य देहात् अतीव कलुषमुदकं निस्सरति?
उत्तर:
पापाचारस्य देहात् अतीव कलुषमुदकं निस्सरति।
4.अभ्यास
अस्ति मगधदेशे चम्पकवतीनाम अरण्यानी। तस्यां चिरात् महता स्नेहेन मृगकाको निवसतः। स च मृगः स्वेच्छया भ्राम्यन् हृष्टपुष्टाङ्गः केनचित् शृगालेन अवलोकितः। तं दृष्ट्वा शृगालोऽचिन्तयत् – आह – ” कथम् एतन्मासं सुललितं भक्षयामि? भवतु। विश्वासं तावदुत्पादयामि” इत्यालोच्य उपसृत्य अब्रवीत् – ” मित्र ! कुशलं ते” इति। मृगेणोक्तम् – ” कस्त्वम्’? इति। स ब्रूते – “क्षुद्रबुद्धिर्नाम जम्बुकोऽहम्। अत्र आरण्ये बन्धुहीने मृतवत् एकाकी निवसामि । इदानीं त्वां मित्रमासाद्य पुनः सबन्धुर्जीवलोकं प्रविष्टोऽस्मि। अघुना तवानुचरेण मया भवितव्यम्” | मृगेणोक्तम् – ” एवमस्तु” इति।
There was a forest named Champakavathi in the country of Magadha. There a deer and a crow lived for a long time as good friends. The deer, which roamed about happily, and was stout, was seen by a jackal. On seeing it, the jackal thought – “How can I its tender flesh ? Well, let me gain its confidence. “Having thought so, it went near and said, “Friend, how are you ?” The deer asked, “Who are you?” He replied, “I am a jackal named Khudrabuddhi. I am living alone in this forest without any kith. Now, having seen you, I feel as if I have encountered my whole kith and kin. I want to become your companion. “The deer said, “Let it be.”
प्रश्नाः
प्रश्न 1.
चम्पकवतीनाम अरण्यानी कुत्र अस्ति?
उत्तर:
चम्पकवतीनाम अरण्यानी मगधदेशे अस्ति।
प्रश्न 2.
मृगकाको कथं निवसतः?
उत्तर:
मृगकाको महता स्नेहेन निवसतः।
प्रश्न 3.
मृगः केन अवलोकितः?
उत्तर:
मृगः केनचित् शृगालेन अवलोकितः।
प्रश्न 4.
जम्बुकस्य नाम किम्?
उत्तर:
जम्बुकस्य नाम क्षुद्रबुद्धिः
प्रश्न 5.
शृगालः मृगं दृष्ट्वा किमचिन्तयत्?
उत्तर:
शृगालः मृगं दृष्ट्वा “कथं एतन्मासं सुललितं भक्षयामि? भवतु । विश्वास तावदुत्पादयामि” इति अचिन्तयत।
5.अभ्यास
अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान् पर्पटीवृक्षः। तस्य कोटरे दैव – दृर्विपाकात् गलितनखनयनो जरद्गवनामा गृध्रः प्रतिवसति। अथ कृपया तज्जीवनाय तद् वृक्षवासिनः पक्षिणः स्वाहारात् किञ्चित् उद्धृत्य तस्मै ददति। तेन असौ जीवति। तेषां शाबकरक्षां च करोति। अथ कदाचित दीर्घकर्णनामा मार्जारः पक्षिशाबकान् भक्षयितुं तत्र आगतः। ततस्तम् आयान्तं दृष्ट्वा पक्षिशाबकैः भयार्तेः कोलाहलः कृतः। तच्छृत्वा जरद्गवेण उक्तम् – ” कोऽयमायाति”? इति। दीर्घकर्णो गृध्रमवलोक्य सभयमाह – ” हा हतोऽस्मि। यतोऽयं मां व्यापादयिष्यति” इति।
There was a big Parpati tree on the Gridhrakuta hill on the banks of the Gang. In its hollow there lived an eagle called Jaradgava that had lost its nails and sight because of unfortunate fate. Taking pity on it, the birds that lived in that tree gave a part of their food every day. It lived on that. It protected their young ones also. Once a cat named Dirghakarna came there to eat the young birds. On seeing it approaching, the young ones cried with fear. Hearing that, Jaradgava asked, “Who is it coming?” On seeing the eagle, Dirghakarna was afraid and thought “Alas, he will kill me.”
प्रश्नाः
प्रश्न 1.
पर्पटीवृक्षः कुत्रास्ति?
उत्तर:
पर्पटीवृक्षः भागीरथीतीरे गृध्रकूटनाम्नि पर्वते अस्ति।
प्रश्न 2.
वृक्षस्य कोटरे कः प्रतिवसति?
उत्तर:
वृक्षरय कोटरे जरद्गवनाम गृध्रः प्रतिवसति।
प्रश्न 3.
मार्जार: किमर्थं तत्र आगतः?
उत्तर:
मार्जारः पक्षिशाबकान् भक्षयितुं तत्र आगतः।
प्रश्न 4.
कोलाहल: कैः कृतः?
उत्तर:
कोलाहल: पक्षिशाबकैः कृतः।
प्रश्न 5.
दीर्घकर्णोः गृध्रमवलोक्य किमाह?
उत्तर:
दीर्घकर्णो गृध्रमवलोक्य – “हा हतोऽस्मि। यतोऽयं मां व्यापादयिष्यति” इति आह।